संपूज्य विधिवच्चक्रमिदं स्तोत्रमुदीरयत्
सहस्रांशुं सहस्राभं सहस्रारं सुनिर्मलम्
तुण्डे त्रिशूलधृक् शर्व आरामूले महाद्रयः
जवे यस्य स्थितो वायुरापोग्निः पृथिवी नभः
बाह्मतो मुनयो यस्य बालखिल्यादयस्तथा
यन्मे पापं शरीरोत्थं वाग्जं मानसमेव च
यन्मे कुलोद्भवं पापं पैतृकं मातृकं तथा
त्वन्नामकीर्तनाच् चक्र दुरितं यातु संक्षयम्
संस्मरन् पुण्डरीकाक्षं सर्वपापप्रणासनम्
निश्चक्रामाथ पातालाद् विषुवे दक्षिमे मुने
परमामापदं प्राप्य सस्मार स्वपितामहम्
दृष्ट्वा तस्थौ महातेजाः सार्घपात्रो बलिस्तदा
तरणे यो भवेत् पोतस्तन्मे व्याख्यातुमर्हसि
विचिन्त्य प्राह वचनं संसारे यद्वितं परम्
प्रवक्ष्यामि हितं ते ऽद्य तथानेयेषां हितं बले
विषमविषयतोये मज्जतामप्लावानां भवति शरणमेको विष्णुपोतो नराणाम्
परिहर मधुसूदनप्रन्नान् प्रभुरहमन्यनृणां न वैष्णवानाम्
ये विष्णुभक्ताः पुरुषाः पृथिव्यां यमस्य ते निर्विषया भवन्ति
तावेव केवलं शलाघ्यौ यौ तत्पूजाकरौ करौ
न यौ पूजितुं शक्तौ हरिपादाम्बुजद्वयम्
रोगोवान्यो न सा जिह्वा या न वक्ति हरेर्गुणान्
यः पादपङ्कजं विष्णोर्न पूजयति भक्तितः
मृता अपि न शोच्यास्ते सत्यं सत्यं मयोदितम्
दृश्यं स्पृस्यमदृश्यञ्च तत्सर्वं केशवात्मकम्
तेनार्चिता न संदेहो लोकाः सामरदानवाः
तथा गुणा हि देवस्य त्वसंख्यातास्तु चक्रिणः
समाश्रयन्ते भवभीतिनाशनं संसारगर्ते न पतन्ति ते पुनः
न ते परिभवं यान्ति न मृत्योरुद्विजन्ति च
न तेषां यमसालोक्यं न च ते नरकौकसः
विप्रा दानवशार्दूल विष्णुभक्ता व्रजन्ति याम्