सतारकाक्षः सह वैद्युतेन संतिष्ठते भृत्यकलत्रवान् सः
कृत्वा सुगुप्तं भुवि शोणिताख्यं पुरं स चास्ते सह दानवेन्द्रैः
शक्रप्रियार्थ सुरकार्यसिद्धये हिताय विप्रर्षभगोद्विजानाम्
श्रुते यस्मिन् संस्मृते कीर्तिते च पापं याति प्रक्षयं पुण्यमेति
यच्चाप्यन्यन् श्रोतुकामो ऽसि विप्र तत्प्रोच्यतां कथयिष्याम्यशेषम्
किं त्वस्तयन्यत्तु प्रष्टव्यं तच्छ्रुत्वा कथयाद्य मे
अन्तर्धानं गतः क्वासौ सर्वात्मा तात कथ्यताम्
का चेष्टा तस्य विप्रर्षे तन्मे व्याख्यातुमर्हसि
जगाम ब्रह्मसदनमधिरुह्योरगाशनम्
समुत्थायायथ सौहार्दात् सस्वजे कमलासनः
सुराणां क्रतुभागार्थं स्वयंभो बलिबन्धनम्
कथं कथमिति प्राह त्वं मां दर्शितुमर्हसि
दर्शयामास तद्रूपं सर्वदेवमयं लघु
तावानेवोर्ध्वामानेन ततो ऽजः प्रणतो ऽभवत्
भक्तितम्रो महादेवं पद्मजः स्तोत्रमीरयत्
प्रोवाच देवं प्रपितामहं तु वरं वृणीष्वामलसत्त्ववृत्ते
रूपेण पुण्येन विबो ह्यनेन संस्थीयतां मद्भवने मुरारे
तस्थौ हि रूपेण हि वामनेन संपूज्यमानः सदने स्वयंभोः
विद्याधरास्तूर्यरांश्च वादयन् स्तुवन्ति देवासुरसिद्धसङ्घाः
स्वर्गे विरिञ्चिः सदनात् सुपुष्पाण्यानीय पूजां प्रचकार विष्णोः
स्वर्गे सहस्रं स तु योजनानां विष्णोः प्रमाणेन हि वामनो ऽभूत् तत्रास्य शक्रः प्रचकार पूजां स्वयंभुवस्तुल्यगुणां महर्षे
रसातलस्थो दितिजश्चकार यत्तच्छृणुष्वाद्य वदामि विप्र
शुद्धस्फटिसोपानं कारयामास वै पुरम्
मुक्ताजालान्तरद्वारो निर्मितो विश्वकर्मणा
तया सह महातेजा रेमे वैरोचनिर्मुने
दैत्यतेजोहरः प्राप्तः चपाताले वै सुदर्शनः
बभै हलहलाशब्दः क्षुभितार्णवसंनिभः
आः किमेतदितीत्थञ्च पप्रच्छासुरपुङ्गवः
कोशे खङ्गं समावेश्य धर्मपत्नी शुचिव्रता
इत्येवमुक्त्वा चार्वङ्गी सार्घपात्रा विनिर्ययौ