भगवानप्यसंपूर्णे तृतीये तु क्रमे विभुः
त्वं पूरय पदं तन्मे नो चेद् बन्धं प्रतीच्छ भोः
बाणः प्राहामरपतिं वचनं हेतुसंयुतम्
कथं बलिं प्रार्थयसे सुविस्तृतां यां प्राग्भवान् नो विपुलामथाकरोत्
दत्ता च तातेन हि तावतीयं किं वाक्छलेनैष निबध्यते ऽद्य
शक्तस्तु संपूजयितुं मुरारे प्रसीद मा बन्धनमादिशस्व
देशे सुपुण्ये वरदे यच्च काले तच्चाशेषं दृश्यते चक्रपाणे
कालो ज्येष्ठामूलयोगे मृगाङ्गः कुरुक्षेत्रं पुण्यदेशं प्रसिद्धम्
स्वयं श्रुतीनामपि चादिकर्त्ता व्याप्य स्थितः सदसद् यो जगद् वै
किं त्वं न गृह्णासि जगत्त्रयं भो रूपेण लोकत्रयवन्दितेन
क्रमेण त्वं लङ्घयितुं समर्थो लीलामेतां कृतवान् लोकनाथ
विष्णो न बध्नासि बलिं न दूरे प्रभुर्यदेवेच्छति तत्करोति
प्रोवाच भगवान् वाक्यमादिकर्त्ता जनार्दनः
तेषां वैच हेतुसंयुक्तं शृणु प्रत्युत्तरं मम
देहि मह्यं प्रमाणेन तदेतत् समनुष्ठितम्
प्रायच्छद् येन निःशङ्कं ममानन्तं क्रमत्रयम्
बलेरपि हितार्थाय कृतमेतत् क्रमत्रयम्
दत्तं तेनायुरेतस्य कल्पं यावद् भविष्यति
सावर्णिके च संप्राप्ते बलिरिन्द्रो भविष्यति
प्रोवाच बलिमभ्येत्य वचनं मधुराक्षरम्
सुतलं नाम पातालं वस तत्र निरामयः
भविष्यन्ति तु येनाहं निवत्स्यामि निरामयः
भिवष्यन्ति महार्हाणि तानि वक्ष्यामि सर्वशः
तथाधीतान्यव्रतिभिर्दास्यन्ति भवतः फलम्
द्वारप्रतिपदा नाम तव भावी महोत्सवः
पुष्पदीपप्रदानेन अर्जयिष्यन्ति यत्नतः
यथैव राज्ये भवतस्तु साम्प्रतं तथैव सा भाव्यथ कौमुदी च
यज्ञं समादाय जगाम तूर्णं स शक्रसद्भामरसंघजुष्टम्
अन्तर्दधे विश्वपतिर्महर्षे संपश्यतामेव मुराधिपानाम्
कृत्वा पुरं सौभमिति प्रसिद्धं तदान्तरिक्षे विचचार कामात्