बिभेद मार्गणैस्तीक्ष्णैः प्रह्लादं सर्वमर्मसु
बिभेद हृदये बाह्वोर्वदने च नरोत्तमम्
चिच्छेदैकेन बाणेन चन्द्रार्धाकारवर्चसा
अधिज्यं लाघवात् कृत्वा ववर्ष निशिताञ्शरान्
कार्मुकं च क्षुरप्रेण चिच्छेद पुरुषोत्तमः
समादत्तं तदा साध्यो मुने चिच्छेद लाघवात्
परिघं दारुणां दीर्घं सर्वलोहमयं दृढम्
भ्राम्यमाणं स चिच्छेद नाराचेन महामुनिः
मुद्गरं भ्राम्य वेगेन प्रचिक्षेप नराग्रजे
चिच्छेद दशधा साध्यः स छिन्नो न्यपतद् भुवि
प्रचिक्षेप नराग्र्याय तं च चिच्छेद धर्मजः
तां च चिच्छेद बलवान् क्षुरप्रेण महातपाः
समादाय ततो बाणैरवतस्तार नारद
नाराचेन जघानाथ हृदये सुरतापसः
निपपात रथोपस्थे तमपोवाह सारथिः
सुदृढं चापमादाय भूयो योद्धमुपागतः
गच्छ दैत्येन्द्र योत्स्यामः प्रातस्त्वाह्निकमाचर
जगाम नैमिषारण्यं क्रियां चक्रे तदाऽह्निकीम्
रात्रौ चिन्तयते युद्धे कथं जेष्यामि दाम्भिकम्
दिव्यं वर्षसस्रं तु दैत्यो देवं न चाजयत्
पीतवाससमभ्येत्य दानवो वाक्यमब्रवीत्
विजेतुं नाद्य शक्नोमि एतन्मे कारणं वद
साध्यो विप्रवरो धीमान् मृधे देवासुरैरपि
तत्कथं यत्प्रतिज्ञातं तदसत्यं भविष्यति
तस्मात्तवाग्रतो विष्णो करिष्ये कायशोधनम्
शिरःस्नातस्तदा तस्थौ गृणन् ब्रह्म सनातनम्
गच्छ जेष्यसि भक्त्या तं न युद्धेन कथञ्चन
जितो ऽयं त्वत्प्रसादेन शक्रः किमुत धर्मजः
न स्थातुं त्वत्प्रसादेव शक्यं किमु करोम्यज
धर्मं प्रवर्त्तापयितुं तपश्चर्यां समास्थितः