ग्रीवादितिर्देवमाता विद्यास्तद्वलयस्थिताः
धर्मकामार्थमोक्षीयाः शास्त्रः शौचसमन्विताः
श्वासस्थो मातरिश्वा च मरुतः सर्वसंधिषु
चन्द्रादित्यौ च नयने पक्ष्मस्थाः कृत्तिकादयः
तारका रोमकूपेभ्यो रोमाणि च महर्षयः
क्रमेणैकेन जगतीं जहार सचराचराम्
नक्षश्चाक्रमतो नाभिं सूर्येन्दू सव्यदक्षिणौ
क्रान्तार्धार्धेन वैराजं मध्येनापूर्यताम्बरम्
ब्रह्माण्डोदरमाहत्य निरालोकं जगाम ह
कुटिला विष्णुपादे तु समेत्य कुटिला ततः
भगवानप्यसंपूर्णे तृतीये तु क्रमे विभुः
त्वं पूरय पदं तन्मे नो चेद् बन्धं प्रतीच्छ भोः
बाणः प्राहामरपतिं वचनं हेतुसंयुतम्
कथं बलिं प्रार्थयसे सुविस्तृतां यां प्राग्भवान् नो विपुलामथाकरोत्
दत्ता च तातेन हि तावतीयं किं वाक्छलेनैष निबध्यते ऽद्य
शक्तस्तु संपूजयितुं मुरारे प्रसीद मा बन्धनमादिशस्व
देशे सुपुण्ये वरदे यच्च काले तच्चाशेषं दृश्यते चक्रपाणे
कालो ज्येष्ठामूलयोगे मृगाङ्गः कुरुक्षेत्रं पुण्यदेशं प्रसिद्धम्
स्वयं श्रुतीनामपि चादिकर्त्ता व्याप्य स्थितः सदसद् यो जगद् वै
किं त्वं न गृह्णासि जगत्त्रयं भो रूपेण लोकत्रयवन्दितेन
क्रमेण त्वं लङ्घयितुं समर्थो लीलामेतां कृतवान् लोकनाथ
विष्णो न बध्नासि बलिं न दूरे प्रभुर्यदेवेच्छति तत्करोति
प्रोवाच भगवान् वाक्यमादिकर्त्ता जनार्दनः
तेषां वैच हेतुसंयुक्तं शृणु प्रत्युत्तरं मम
देहि मह्यं प्रमाणेन तदेतत् समनुष्ठितम्
प्रायच्छद् येन निःशङ्कं ममानन्तं क्रमत्रयम्
बलेरपि हितार्थाय कृतमेतत् क्रमत्रयम्
दत्तं तेनायुरेतस्य कल्पं यावद् भविष्यति
सावर्णिके च संप्राप्ते बलिरिन्द्रो भविष्यति
प्रोवाच बलिमभ्येत्य वचनं मधुराक्षरम्