बन्धनं वा वधो वापि पूर्वाभ्यासेन जायते
भवान् दिवाकीर्तिमिमं सुपुत्रं गार्हस्थ्यधर्मे विनियोजयस्व
भवान् दिवाकीर्तिमिमं सुपुत्रं गार्हस्थ्यधर्मे विनियोजयस्व
जगाम पुण्यं सदनं मुरारेः ख्यातं बदर्याश्रममाद्यमीड्यम्
तस्माच्च पूर्वं द्विजवर्य वै मया अभ्यस्तमासीन्ननु ते ब्रवीमि
ज्ञानानि चैवाब्यसंतां हि पूर्वं भवन्ति धर्मार्थशांसि नाथ
ध्यायंस्तदास्ते मधुकैटभघ्नं नारायणं चक्रगदासिपाणिम्
जज्ञवाटमुपागम् उच्चैर्वचनमब्रवीत्
यज्ञो ऽश्वमेधः प्रवरः क्रतूनां मुख्यस्तथा सत्रिषु दैत्यनाथः
सार्घपात्रः समभ्यागाद्यत्र देवः स्थितो ऽभवत्
भरद्वाजर्षिणा सार्धं यज्ञवाटं प्रवेशयत्
प्रोवाच भगवन् ब्रूहि किं दद्मि तव मानद
विहस्य सुचिरं कालं भरद्वाजमवेक्ष्य च
न स धारयते भूम्यां पारक्यां जातवेदसम्
मच्छरीरप्रमाणेन देहि राजन् पदत्रयम्
बाणं च तनयं वीक्ष्य इदं वचनमब्रवीत्
येन क्रमत्रयं मौर्ख्याद् याचते बुद्धितो ऽपि च
धनादिकं भूरि न वै ददाति यथेह विष्णोर्न बहुप्रयासः
मयि दातरि यश्चायमद्य याचेत् पदत्रयम्
याचस्व विष्णो गजवाजिभूमिं दासीहिरण्यं यदभीप्सितं च
दातुर्याचयितुर्लज्जा कथं न स्यात् पदत्रये
एतभ्यः कतमं दद्यां स्थानं याचस्व वामन
एतावता त्वहं चार्थी देहि राजन् पदत्रयम्
बलिर्भृङ्गारमादाय ददौ विष्णोः क्रमत्रयम्
त्रैलोक्यक्रमणार्थाय बहुरूपं जगन्मयम्
सत्यं तपो जानुयुग्मे ऊरुभ्यां मेरुमन्दरौ
लिङ्गे स्थितो मन्मथश्च वृषणाभ्यां प्रजापतिः
वलिषु त्रिषु नद्यश्च यज्ञास्तु जठरे स्थिताः
पृष्ठस्था वसवो देवाः स्कन्धौ रुद्रैरधिषठितौ
हृदये संस्थितो ब्रह्मा कुलिशो हृदयास्थिषु