सा गृहीता च नृपतेर्भार्या रमितुमिच्छता
शस्त्रहस्तैः सर्वतश्च तैरहं परिवेष्टितः
वध्यमानो ऽब्रुवमहं मा मा हिंसध्वमाकुलाः
दृढं वृक्षे समुद्ब्ध्य घातयन्त तपोधन
मुक्तो वर्षसहस्रान्ते जातो ऽहं श्वेतगर्दभः
तत्रापि सर्वविज्ञानं प्रत्यभासत् ततो मम
एकदा नवराष्ट्रीया भार्या तस्याग्रजन्मनः
तामुवाच पतिर्गच्छ आरुह्यं श्वेतगर्दभम्
इत्येवमुक्ता सा भर्त्रा तन्वी मामधिरुह्य च
ततोर्ऽधपथि सा तन्वी मत्पृष्ठादवरुह्य वै
साङ्गोपाङ्गां रूपवतीं दृष्ट्वा तामहमाद्रवम्
तस्यामुपरि भो तात पतितो ऽहं भृशातुरः
प्रोत्क्षिप्य यष्टिं मां ब्रह्मन् समाधावत् त्वरान्वितः
ततो ऽभिद्रवतस्तूर्ण खलीनरसना मुने
तत्रासक्तस्य षड्रात्रान्ममाभूज्जीवितक्षयः
महारण्ये तथा बद्धः शबरेण दुरात्मना
तेनाप्यन्तः पुरवरे युवतीनां समीपतः
तत्रासतस्तरुण्यस्ता ओदनाम्बुफलादिभिः
कदाचित् पद्मपत्राक्षी श्यामा पीनपयोधरा
नाम्ना चन्द्रावली नाम समुद्घाट्याथ पञ्जरम्
चकारोपरि पीनाभ्यां स्तनाभ्यां सा हि मां ततः
ततो ऽनुप्लपतस्तत्र हारे मर्कटबन्धनम्
भूयो ऽपि नरकं घोरं प्रपन्नो ऽस्मि सुदुर्मतिः
स चैकदा मां शकटे नियोज्य स्वां विलासिनीम्
ततो ऽग्रतः स चण्डालो गतस्त्वेवास्य पृष्ठतः
पृष्ठस्तु समालोक्य विपर्यस्तस्तथोत्प्लुतः
योक्त्रे सुबद्ध एवास्मि पञ्चत्वमगमं ततः
अतस्तव गृहे जातस्त्वहं जातिमनुस्मरन्
पूर्वाभ्यासाच्च शास्त्राणि बन्धनं चागतं मम
पापानि घोररूपाणि मनसा कर्मणा गिरा