धर्मार्थकामशास्त्राणि प्रत्यभासन्त सर्वशः
एकवस्त्रपरीधानो नगरान्निर्ययौ बहिः
सा निर्गते तु रमणे ममान्तिकमुपागता
यथैव धर्मशास्त्राणि तथाहमवदं च ताम्
चित्तं हरसि मे भीरु कोकिला ध्वनिना यथा
कथमेवावयोर्व्याघ्र रतियोगमुपेष्यति
द्वारमुद्घाटयस्वाद्य निर्गमिष्यामि सत्वरम्
रात्रावुद्घाटयिष्याम ततो रंस्याव स्वेच्छया
तस्मादुद्घाटय द्वारं मां बन्धाच्च विमोचय
उद्घाटिते ततो द्वारे निर्गतो ऽहं बहिः श्रणात्
सा गृहीता च नृपतेर्भार्या रमितुमिच्छता
शस्त्रहस्तैः सर्वतश्च तैरहं परिवेष्टितः
वध्यमानो ऽब्रुवमहं मा मा हिंसध्वमाकुलाः
दृढं वृक्षे समुद्ब्ध्य घातयन्त तपोधन
मुक्तो वर्षसहस्रान्ते जातो ऽहं श्वेतगर्दभः
तत्रापि सर्वविज्ञानं प्रत्यभासत् ततो मम
एकदा नवराष्ट्रीया भार्या तस्याग्रजन्मनः
तामुवाच पतिर्गच्छ आरुह्यं श्वेतगर्दभम्
इत्येवमुक्ता सा भर्त्रा तन्वी मामधिरुह्य च
ततोर्ऽधपथि सा तन्वी मत्पृष्ठादवरुह्य वै
साङ्गोपाङ्गां रूपवतीं दृष्ट्वा तामहमाद्रवम्
तस्यामुपरि भो तात पतितो ऽहं भृशातुरः
प्रोत्क्षिप्य यष्टिं मां ब्रह्मन् समाधावत् त्वरान्वितः
ततो ऽभिद्रवतस्तूर्ण खलीनरसना मुने
तत्रासक्तस्य षड्रात्रान्ममाभूज्जीवितक्षयः
महारण्ये तथा बद्धः शबरेण दुरात्मना
तेनाप्यन्तः पुरवरे युवतीनां समीपतः
तत्रासतस्तरुण्यस्ता ओदनाम्बुफलादिभिः
कदाचित् पद्मपत्राक्षी श्यामा पीनपयोधरा
नाम्ना चन्द्रावली नाम समुद्घाट्याथ पञ्जरम्