नेत्राभ्यामपतद् वारि वह्निवर्षनिभं भुवि
जगाम शतधा ब्रह्मञ्शैलशृङ्गे यथाशनिः
आदाय कार्मुकं वीरस्तूणद् बाणं समाददे
मुमोच साध्याय तदा क्रोधन्धकारिताननः
चिच्छेद बाणैरपरैर्निर्बिभेद च दानवम्
आविध्येतां तदान्योन्यं मर्मभिद्भिरजिह्यगैः
दिदृक्षूणां तदा युद्धं लघु चित्रं च सुष्ठु च
पुष्पवर्षमनौपम्यं मुमुचुः साध्यदैत्ययौः
अयुध्येतां महेष्वासौ प्रेक्षकप्रीतिवर्द्धनम्
दिशश्च विदिशश्चैव छादयेतां शरोत्करैः
बिभेद मार्गणैस्तीक्ष्णैः प्रह्लादं सर्वमर्मसु
बिभेद हृदये बाह्वोर्वदने च नरोत्तमम्
चिच्छेदैकेन बाणेन चन्द्रार्धाकारवर्चसा
अधिज्यं लाघवात् कृत्वा ववर्ष निशिताञ्शरान्
कार्मुकं च क्षुरप्रेण चिच्छेद पुरुषोत्तमः
समादत्तं तदा साध्यो मुने चिच्छेद लाघवात्
परिघं दारुणां दीर्घं सर्वलोहमयं दृढम्
भ्राम्यमाणं स चिच्छेद नाराचेन महामुनिः
मुद्गरं भ्राम्य वेगेन प्रचिक्षेप नराग्रजे
चिच्छेद दशधा साध्यः स छिन्नो न्यपतद् भुवि
प्रचिक्षेप नराग्र्याय तं च चिच्छेद धर्मजः
तां च चिच्छेद बलवान् क्षुरप्रेण महातपाः
समादाय ततो बाणैरवतस्तार नारद
नाराचेन जघानाथ हृदये सुरतापसः
निपपात रथोपस्थे तमपोवाह सारथिः
सुदृढं चापमादाय भूयो योद्धमुपागतः
गच्छ दैत्येन्द्र योत्स्यामः प्रातस्त्वाह्निकमाचर
जगाम नैमिषारण्यं क्रियां चक्रे तदाऽह्निकीम्
रात्रौ चिन्तयते युद्धे कथं जेष्यामि दाम्भिकम्
दिव्यं वर्षसस्रं तु दैत्यो देवं न चाजयत्