अन्तर्धानगता भूमौ चिक्षेप गृहदूरतः
सा चाभ्येत्य ग्रहीतुं स्वं नाशकद् राक्षसी सुतम्
कथयामासा यद् वृत्तं स्वद्विजात्मजहीरिणम्
स राभसशिशुर्ब्रह्मन् भार्यायै विनिवेदितः
दध्ना संयोजितो ऽत्यर्थं क्षीरेणेक्षुरसेन च
पित्रा च कृतनामानौ निशाकरदिवाकरौ
तयोश्चकार विप्रो ऽसौ व्रतबन्धक्रियां क्रमात्
निशाकरो जडतया न पपाठेति नः श्रुतम्
पर्यनिन्दंस्तथा ये च जना मलयवासिनः
महाशिलां चोपरि वै पिधानमवरोपयत्
तस्य मातागमत् कूपं तमन्धं शिलयाचितम्
तस्य मातागमत् कूपं तमन्धं शिलयाचितम्
उच्चैः प्रोवाच केनेयं कूपोपरि शिला कृता
प्राह प्रदत्ता पित्रा मे कूपोपरि शिला त्वियम्
सो ऽप्याह तव पुत्रो ऽस्मि निशाकरेति विश्रुतः
निशाकरेति नाम्नाहो न कश्चित् तनयो ऽस्ति मे
सा श्रुत्वा तां शिलांसुभ्रः समुत्क्षिप्यान्तयो ऽश्रिपत्
सा स्वानुरूपं तनयं दृष्ट्वा स्वसुतस्य च
कथयामास तत्सर्वं चेष्टितं स्वसुतस्य च
नोक्तवान् यद्भवान् पूर्वं महत्कौतूहलं मम
प्राह पुत्रो ऽद्भुतं वाक्यं मातरं पितरं तथा
मया जडत्वमनघ तथान्धत्वं स्वचक्षुषः
वृषाकपेश्च तनयो मालागर्भसमुद्भवः
मोक्षशास्त्रं परं तात सेतिहासश्रुतिं तथा
जातो मदान्धस्तेनाहं दुष्कर्माभिरतो ऽभवम्
विवेको नाशमगमत् मूर्खभावमुपागतः
परदारपरार्थेषु मतिर्मे च सदाभवत्
मृतो ऽस्म्युद्ब्न्धनेनाहं नरकं रौरवं गतः
अरण्ये मृगहा पापः संजातो ऽहं मृगाधिपः
नराधिपेन विभुना नीतश्च नगरं निजम्