तस्यां चलत्यां मकरालयामी उद्वृत्तवेला दितिजाद्य जाताः
धर्मं सत्यं च पथ्यं च सर्वोत्साहसमीरितम्
किं वा वाच्यं मुरारेर्निजहितमथवा तद्धितं वा प्रयुढञ्जे तथ्यं पथ्यंप्रियभोमम वदशुभदन्तत्करिष्ये न चान्यत्
विचिन्त्य नारद प्राह भूतभव्यविदीश्वरः
श्रुतिप्रमाणं मखभोजिनो बहिः सुरास्तदर्थं हरिर् अभ्युपैति
कार्यं न देयं हि विभो तृणाग्रं यदध्वरे भूकनकादिकं वा
यस्योदरे भूर्भुवनाकपालरसातलेशा निवसन्ति नित्यशः
समागते ऽप्ययर्थिनि हीनवृत्ते जनार्दने लोकपतौ कथं तु
दृश्यते हि तथा तच्च सत्यं ब्राह्मणसत्तम
वाक्कायमनसानीह योन्यन्तरगतान्यपि
या वृत्ता मलये पूर्वं कोशकारसुतस्य तु
कथां पौराणिकीं पुण्यां महाकौतूहलं हि मे
पूर्वाभ्यासनिबद्धां हि सत्यां भृगुकुलोद्वह
कोशकार इति ख्यात आसीद् ब्रह्मंस्तपोरतः
सती वात्स्यायनसुता धर्मशीला पतिव्रता
मूकवन्नालपति स न च पश्यति चान्धवत्
मन्यमाना गृहद्वारि षष्ठे ऽहनि समुत्सृजत्
स्वं शिशुं कृशमादाय सूर्पाक्षी नाम नामतः
तमादाय जगामाथ भोक्तुं शालोदरे गिरौ
नेत्रहीनः प्रत्युवाच किमानीतस्त्वया प्रिये
कोशकारद्विजगृहे तस्यानीतः प्रभो सुतः
महाज्ञानी द्विजेन्द्रो ऽसौ ततः शप्स्यति कोपितः
अन्यस्य कस्यचित् पुत्रं शीघ्रमानय सुन्दरि
समाजगाम त्वरिता समुत्पत्य विहायसम्
रुरोद सुस्वरं ब्रह्मन् प्रक्षिप्याङ्गुष्ठमानने
पश्य स्वयं मुनिश्रेष्ठ सशब्दस्तनयस्तव
स चापि ब्राह्मणश्रेष्ठः समपश्यत तं शिशुम्
ततो विहस्य प्रोवाच कोशकारो निजां प्रियाम्
को ऽप्यटस्माकं छलयितुं सुरूपी भुवि संस्थितः
बबन्धोल्लिख्य वसुधां सकुशेनाथ पाणिना