हंसयुक्तं महाकोश्यां सर्वपापप्रणाशनम्
विन्घ्यशृङ्गे महाशैरिं कन्थायां मधुसूदनम्
लौहदण्डे हृषीकेशं कोसलायां मनोहरम्
भूधरं देवकानद्यां महोदायां कुशप्रियम्
सुनेत्रं सैन्धवारण्ये शूरं शूरपुरे स्थितम्
शङ्कुकर्णं च भीमायां भीमं शालवने विदुः
महेशं महिलाशैले कामरूपे शशिप्रभम्
उपेन्द्रं सिंहलद्वीपे शक्राह्वे कुन्दमालिनम्
कालाग्निरुद्रं तत्रैव तथान्यं कृत्तिवाससम्
महातले गुरो ख्यातं देवेशं छागलेश्वरम्
सहस्राक्षं परिख्यातं मुसलाकृष्टदानवम्
धरातले कोकनदं मेदिन्यां चक्रपाणिनम्
महर्ल्लोके तथागस्त्यं कपिलं च जने स्थितम्
ब्रह्माणं ब्रह्मलोके च सप्तमे वै प्रतिष्ठितम्
अप्रतर्क्यं निरालम्बे निराकाशे तपोमयम्
प्लक्षद्विपे मुनिश्रेष्ठ ख्यातं गरुडवाहनम्
सहस्रांशुः स्थितः शाके धर्मराट् पुष्करे स्थितः
सजलस्थलपर्यन्तं चरेषु स्तावरेषु च
धर्मप्रदानीह महौजसानि संकीर्तनीयन्यघनाशनानि
धर्मार्थकामाद्यपवर्गमेव लभन्ति देवा मनुजाः ससाध्याः
उत्तिष्ठ गच्छामि महासुरस्य यज्ञं सुराणां हि हिताय विप्र
विलासलीलागमनो गिरीन्द्रात् स चाभ्यगच्छत् कुरुजाङ्गलं हि
क्षुब्धाः समुद्रा दिवि ऋक्षमण्डलो बभौ विपर्यस्तगतिर्महर्षे
यथा प्रदग्धो ऽस्मि महेश्वरेण किं मां न संधक्ष्ययति वासुदेवः
भक्त्या द्विजेन्द्ररपि संप्रपादितान् नैव प्रतीच्चन्ति विभोर्भयेन
पप्रच्छोशनसं शुक्रं प्रणिपत्य कृताञ्जलिः
किमासुरीयान् सुहुतानपीह भागान् न गृह्णन्ति हुताशनाश्च
दिशः किमर्थं तमसा परिप्लुता दोषेण कस्याद्य वदस्व मे गुरो
अथ ज्ञात्वा कारणं च बलिं वचनमब्रवीत्
हुताशना मन्त्रहुतानपीह नूनं समागच्छति वासुदेवः