मणिमत्पर्वते शंभुं ब्रह्मण्ये च प्रजापतिम्
विद्धि विष्णुं मुनिश्रेष्ट स्थितमोषधिसानुनि
गयायां गोपतिं देवं गदापाणिनमीश्वरम्
अर्द्धनारीश्वरं पुण्ये माहेन्द्रे दभिणे गिरौ
वैकुण्ठमपि सह्याद्रौ पारियात्रऽपराजितम्
मलयाद्रौ च सौगन्धिं विन्ध्यपादे सदाशिवम्
पाञ्चालिकं च ब्रह्मर्षे पाञ्चालेषु व्यवस्थितम्
स्वयंभुवं मधुवते अयोगन्धिं च पुष्करे
अविमुक्तकमत्रैव लोलश्चात्रैव गीयते
कुमारधारे बाह्लीशं कार्तिकेयं च बर्हिणम्
वनमालिनमाहुर्मां दिष्किन्धावासिनो जनाः
श्रीवत्साह्कमुदाराङ्गं नर्मदायां श्रियः पतिम्
अर्बुदे च त्रिसौपर्ण क्ष्माधरं सूकराचले
तथैवात्रापि विख्यातं तृतीयं शशिसेखरम्
हेमकूटे हिरण्याक्षं स्कन्दं शरवणे मुने
पद्मनाभं मुनिश्रेष्ठ सर्वसौख्यप्रदायकम्
तत्रैव च महाहंसं प्रयागे ऽपि वटेश्वरम्
भिल्लीवने महायोगं माद्रेषु पुरुषोत्तमम्
शूर्पारके चतुर्बाहुं मगधायां सुधापतिम्
वनस्पतिं समाख्यातं दण्डकारण्यवासिनम्
हंसयुक्तं महाकोश्यां सर्वपापप्रणाशनम्
विन्घ्यशृङ्गे महाशैरिं कन्थायां मधुसूदनम्
लौहदण्डे हृषीकेशं कोसलायां मनोहरम्
भूधरं देवकानद्यां महोदायां कुशप्रियम्
सुनेत्रं सैन्धवारण्ये शूरं शूरपुरे स्थितम्
शङ्कुकर्णं च भीमायां भीमं शालवने विदुः
महेशं महिलाशैले कामरूपे शशिप्रभम्
उपेन्द्रं सिंहलद्वीपे शक्राह्वे कुन्दमालिनम्
कालाग्निरुद्रं तत्रैव तथान्यं कृत्तिवाससम्
महातले गुरो ख्यातं देवेशं छागलेश्वरम्