षट्त्रीणि चैकं च दितीश्वरेण मुक्तानि बाणानि नराय विप्र
षट् सप्त चाष्टौ नव षण्नरेण द्विसप्ततिं दैत्यपतिः ससर्ज्ज
ततो ऽप्यसंख्येयतरान् हि बाणान् मुमोचतुस्तौ सुभृशं हि कोपात्
स चापि दैत्यप्रवरः पृषत्कैश्चिच्छेद वेगात् तपनीयपुङ्खैः
युद्धे वरास्त्रैर्युध्येतां घोररूपैः परस्परम्
महेश्वरास्त्रं पुरुषोत्तमेव समं समाहत्य निपेततुस्तौ
गदां प्रगृह्य तरसा प्रचस्कन्द रथोत्तमात्
दृष्ट्वाथ पृष्ठतश्चक्रे नरं योद्धूमनाः स्वयम्
ख्यातं पुराणर्षिमुदारविक्रमं नारायणं नारद लोकपालम्
परिभ्राम्य गदां वेगात् मूर्ध्नि साध्यमताडयत्
नेत्राभ्यामपतद् वारि वह्निवर्षनिभं भुवि
जगाम शतधा ब्रह्मञ्शैलशृङ्गे यथाशनिः
आदाय कार्मुकं वीरस्तूणद् बाणं समाददे
मुमोच साध्याय तदा क्रोधन्धकारिताननः
चिच्छेद बाणैरपरैर्निर्बिभेद च दानवम्
आविध्येतां तदान्योन्यं मर्मभिद्भिरजिह्यगैः
दिदृक्षूणां तदा युद्धं लघु चित्रं च सुष्ठु च
पुष्पवर्षमनौपम्यं मुमुचुः साध्यदैत्ययौः
अयुध्येतां महेष्वासौ प्रेक्षकप्रीतिवर्द्धनम्
दिशश्च विदिशश्चैव छादयेतां शरोत्करैः
बिभेद मार्गणैस्तीक्ष्णैः प्रह्लादं सर्वमर्मसु
बिभेद हृदये बाह्वोर्वदने च नरोत्तमम्
चिच्छेदैकेन बाणेन चन्द्रार्धाकारवर्चसा
अधिज्यं लाघवात् कृत्वा ववर्ष निशिताञ्शरान्
कार्मुकं च क्षुरप्रेण चिच्छेद पुरुषोत्तमः
समादत्तं तदा साध्यो मुने चिच्छेद लाघवात्
परिघं दारुणां दीर्घं सर्वलोहमयं दृढम्
भ्राम्यमाणं स चिच्छेद नाराचेन महामुनिः
मुद्गरं भ्राम्य वेगेन प्रचिक्षेप नराग्रजे
चिच्छेद दशधा साध्यः स छिन्नो न्यपतद् भुवि