अक्षसूत्रं वारुणिस्तु कौश्यं वेदमथाङ्गिराः
कम्ण्डलुं बृहत्तेजाः प्रादाद्विष्णोर्बृहस्पतिः
संस्तूयमानो ऋषिभिः साङ्गं वेदमधीयत
महदाख्यानसंयुक्तं गन्धर्वसहितं मुने
लोकचारप्रवृत्त्यर्थमभूच्छ्रुतिविशारदः
प्रोवाच ब्राह्मणश्रेष्ठं भरद्वाजमिदं वचः
तत्र दैत्यपतेः पुण्यो हयमेधः प्रवर्तते
तेनाहं प्रतिजानामि कुरुक्षेत्रं गतो बलिः
गमिष्यामो वयं विष्णो बलेरध्वरं मा खिद
सान्निध्यं भवतो ब्रूहि ज्ञातुमिच्छामि तत्त्वतः
निवासामि सुपुण्येषु स्थानेषु बहुरूपवान्
दिशः समस्ता गिरयो ऽम्बुदाश्च व्याप्ता भरद्वाज ममानुरूपैः
ब्रह्माद्याः स्थावरान्ता द्विजखगमहिता मूर्तिमन्तो ह्यमूर्ताः ते सर्वे मत्प्रसूता बहु विविधगुणाः पूरणार्थं पृथिव्याः
यैर्दृष्टमात्रैः सहसैव नाशं प्रयाति पापं द्विजवर्य कीर्तनैः
सर्वपापक्षयकरं कीर्तनस्पर्शनादिभिः
हयशीर्षं च कृष्णांशे गोविन्दं हस्तिनापुरे
केदारे माधवं शौरिं कुब्जाम्रे हृष्टमूर्धजम्
जयेशं भद्रकर्णे च विपाशायां द्विजप्रियम्
कृतशौचे नृसिंहं च गोकर्णे विश्वकर्मिणम्
विशाखयूपे ह्यजितं हंसं हंसपदे तथा
मणिमत्पर्वते शंभुं ब्रह्मण्ये च प्रजापतिम्
विद्धि विष्णुं मुनिश्रेष्ट स्थितमोषधिसानुनि
गयायां गोपतिं देवं गदापाणिनमीश्वरम्
अर्द्धनारीश्वरं पुण्ये माहेन्द्रे दभिणे गिरौ
वैकुण्ठमपि सह्याद्रौ पारियात्रऽपराजितम्
मलयाद्रौ च सौगन्धिं विन्ध्यपादे सदाशिवम्
पाञ्चालिकं च ब्रह्मर्षे पाञ्चालेषु व्यवस्थितम्
स्वयंभुवं मधुवते अयोगन्धिं च पुष्करे
अविमुक्तकमत्रैव लोलश्चात्रैव गीयते
कुमारधारे बाह्लीशं कार्तिकेयं च बर्हिणम्