विष्णोरपि प्रसादेन दुष्प्रवेशं महासुरैः
रुद्रकोटिं समाश्रित्य स्थितास्ते ब्रह्मचारिणः
शुक्रस्तु भार्गवान् सर्वान् निन्ये यज्ञविधौ मुने
यज्ञदीक्षां बलेः शुक्रश्चाकार विधिना स्वयम्
मृगाजिनावृतः पृष्ठे बर्हिपत्रविचित्रितः
हयग्रीवप्रलम्बाद्यैर्मयबाणपुरोगमैः
ललनानां सहस्रस्य प्रधाना ऋषिकन्यका
महीं विहर्तुमुत्सृष्टस्तारकाक्षो ऽन्वगाच्च तम्
गते च मासत्रितये हूयमाने च पावके
सुषुवे देवजननी माधवं वामनाकृतिम्
ब्रह्मा समभ्येत्य समं महर्षिभिः स्तोत्रं जगादाथ विभोर्महर्षे
नमो ऽस्तु ते शत्रुवनेन्धनाग्ने नमो ऽस्तु वै पापमहादवाग्ने
नमस्ते जगादाधार नमस्ते पुरुषोत्तम
पीतवासः श्रियःकान्त जनार्दन नमो ऽस्तु ते
सर्वधारी धराधारी रूपधारी नमो ऽस्तु ते
कुरुष्व दैवतपते मघोनो ऽश्रुप्रमार्जनम्
प्रोवाच भगवान् मह्यं कुरूपनयनं विभो
भरद्वाजो महातेजा बार्हस्पत्यस्तपोधनः
ततो ददुः प्रीतियुताः सर्व एव वरान् क्रमात्
मृगाजिनं कुम्भयोनिर्भरद्वाजस्तु मेखलाम्
अक्षसूत्रं वारुणिस्तु कौश्यं वेदमथाङ्गिराः
कम्ण्डलुं बृहत्तेजाः प्रादाद्विष्णोर्बृहस्पतिः
संस्तूयमानो ऋषिभिः साङ्गं वेदमधीयत
महदाख्यानसंयुक्तं गन्धर्वसहितं मुने
लोकचारप्रवृत्त्यर्थमभूच्छ्रुतिविशारदः
प्रोवाच ब्राह्मणश्रेष्ठं भरद्वाजमिदं वचः
तत्र दैत्यपतेः पुण्यो हयमेधः प्रवर्तते
तेनाहं प्रतिजानामि कुरुक्षेत्रं गतो बलिः
गमिष्यामो वयं विष्णो बलेरध्वरं मा खिद
सान्निध्यं भवतो ब्रूहि ज्ञातुमिच्छामि तत्त्वतः