शातद्रवे जले स्नात्वा विपाशां प्रययुस्ततः
प्रजग्मुः किरणां पुण्यां दिनेशकिरणच्युताम्
ऐरावतीं सुपुण्योदां स्नात्वा जग्मुरथेश्वरीम्
अवतीर्णा मुने स्नातुमात्रेयाद्याः शुभां नदीम्
अन्तर्जले द्विजश्रेष्ठ महदाश्चर्यकारकम्
ततः स्नात्वा समुत्तीर्णा ऋषयः सर्व एव हि
चिन्तयन्तश्च सततं किमेतदिति विस्मिताः
वनं हरगलश्यामं खगध्वनिनिनादितम्
विस्तृताभिर्जटाभिस्तु अन्तर्भूमिञ्च नारद
दशार्द्धवर्णैः सुखदैर्नभस्तारागणैरिव
तद्वत् कोकनदैर्व्याप्तं वनं पद्मवनं यथा
विविशुः प्रीतमनसो हंसा इव महासरः
प्रतीच्यभिमुखं ब्रह्मन् अर्थस्येक्षुवनावृतम्
उदङ्मुखं च मोक्षस्य शुद्धस्फटिकवर्चसम्
आश्रम्यर्थो द्वापरान्ते तिष्यादौ धर्म आश्रमी
तत्रैव च रतिं चक्रुरखण्डे सलिलाप्लुते
चतुर्मुर्तिर्जगन्नाथः पुर्वमेव प्रतिष्ठितः
शुश्रूषयाथ तपसा ब्रह्मचर्येण नारद
असुरेभ्यस्तदा भीताः स्वाश्रित्याखण्डपर्वतम्
स्नात्वा जले हि कालिन्द्याः प्रजग्मुर्दक्षिणामुखाः
विष्णोरपि प्रसादेन दुष्प्रवेशं महासुरैः
रुद्रकोटिं समाश्रित्य स्थितास्ते ब्रह्मचारिणः
शुक्रस्तु भार्गवान् सर्वान् निन्ये यज्ञविधौ मुने
यज्ञदीक्षां बलेः शुक्रश्चाकार विधिना स्वयम्
मृगाजिनावृतः पृष्ठे बर्हिपत्रविचित्रितः
हयग्रीवप्रलम्बाद्यैर्मयबाणपुरोगमैः
ललनानां सहस्रस्य प्रधाना ऋषिकन्यका
महीं विहर्तुमुत्सृष्टस्तारकाक्षो ऽन्वगाच्च तम्
गते च मासत्रितये हूयमाने च पावके
सुषुवे देवजननी माधवं वामनाकृतिम्