नारायणं नमस्ये ऽहं नमस्ये गरुडासनम्
कामपालमखण्डं च नमस्ये ब्राह्मणप्रियम्
हंसं शंभुं नमस्ये च ब्रह्माणं सप्रजापतिम्
शिवं विष्णुं सुवर्णाक्षं गोपतिं पीतवाससम्
अर्धनारीश्वरं देवं नमस्ये पापनाशनम्
नमस्ये विश्वरूपं च सौगन्धिं सर्वदाशिवम्
नमस्ये पुष्कराक्षं च पयोगन्धिं च केशवम्
उपशान्तं तमस्ये ऽहं मार्कण्डेयं सजम्बुकम्
कार्त्तिकेयं नमस्ये ऽहं बाह्लीकं शिखिनं तथा
नमस्ये लाङ्गलीशं च नमस्ये ऽहं श्रियः पतिम्
नमस्ये च त्रिसौवर्णं नमस्ये शशिभूषणम्
कपर्दिनं नमस्ये च सर्वामयविनाशनम्
पद्मनाभं हिरण्याक्षं नमस्ये स्कन्दमव्ययम्
सदा हंसं नमस्ये च नमस्ये प्रामतर्पणम्
नमस्ये श्रीनिवासं च नमस्ये पुरुषोत्तमम्
वनस्पतिं पशुपतिं नमस्ये प्रभुमव्ययाम्
नमस्ये सर्वमनघं गौरीशं नकुलीस्वरम्
यशोधरं महाबाहुं नमस्ये च कुशप्रियम्
भद्राक्षं वीरभद्रं च नमस्ये शङ्कुकर्णिकम्
उपेन्द्र चैव गोविन्दं नमस्ते पङ्कजप्रियम्
कालाग्निं रुद्रदेवेशं नमस्ये कृत्तिवाससम्
सहस्राक्षं कोकनदं नमस्ये हरिशङ्करम्
सनातनं च ब्रह्माणं नमस्ये ब्रह्मतत्परम्
नमस्ये धर्मराजानं देवं गरुडवाहनम्
महायोगिनमव्यक्तं नमस्ये पापनाशनम्
नमस्ये पापहन्तारं शरण्यं शरणं व्रजे
ध्न्यं यशस्यं बहुपापनाशनं संकर्तनात् स्मारणात् संश्रवाच्च
कुरुक्षेत्रं समभ्यागाद् यष्टुं वैरोचनो वलिः
शुक्रो द्विजातिप्रवरानामन्त्रयत् भार्गवान्
कौशिकाङ्गिरसश्चैव तत्यजुः कुरुजाङ्गलान्