कालचक्रो भवानीशो नमस्ते पुरुषोत्तमः
नरेश्वरो ऽथ ब्रह्मेशः सूर्येशस्त्वं नमो ऽस्तु ते
मित्रावरुणमूर्तिस्त्वममूर्तिरनघः परः
त्वमूर्ध्वकर्त्ता ऊर्ध्वश् च ऊर्ध्वरेता नमो ऽस्तु ते
अनीशः सर्वपापेभ्यस्त्वामहं शरणं गतः
महेश्वरेण कथितं वाराणस्यां पुरा मुने
उपशान्तस्तथा जातो रुद्रः पापवशात् ततः
विमुक्तपापो ह्युपशान्तमूर्ति संपूज्यते देववरैः प्रसिद्धैः
येन सम्यगधीतेन पापं नाशं तु गच्चति
हयशीर्षं नमस्ते ऽहं भवं विष्णुं त्रिविक्रमम्
नारायणं नमस्ये ऽहं नमस्ये गरुडासनम्
कामपालमखण्डं च नमस्ये ब्राह्मणप्रियम्
हंसं शंभुं नमस्ये च ब्रह्माणं सप्रजापतिम्
शिवं विष्णुं सुवर्णाक्षं गोपतिं पीतवाससम्
अर्धनारीश्वरं देवं नमस्ये पापनाशनम्
नमस्ये विश्वरूपं च सौगन्धिं सर्वदाशिवम्
नमस्ये पुष्कराक्षं च पयोगन्धिं च केशवम्
उपशान्तं तमस्ये ऽहं मार्कण्डेयं सजम्बुकम्
कार्त्तिकेयं नमस्ये ऽहं बाह्लीकं शिखिनं तथा
नमस्ये लाङ्गलीशं च नमस्ये ऽहं श्रियः पतिम्
नमस्ये च त्रिसौवर्णं नमस्ये शशिभूषणम्
कपर्दिनं नमस्ये च सर्वामयविनाशनम्
पद्मनाभं हिरण्याक्षं नमस्ये स्कन्दमव्ययम्
सदा हंसं नमस्ये च नमस्ये प्रामतर्पणम्
नमस्ये श्रीनिवासं च नमस्ये पुरुषोत्तमम्
वनस्पतिं पशुपतिं नमस्ये प्रभुमव्ययाम्
नमस्ये सर्वमनघं गौरीशं नकुलीस्वरम्
यशोधरं महाबाहुं नमस्ये च कुशप्रियम्
भद्राक्षं वीरभद्रं च नमस्ये शङ्कुकर्णिकम्
उपेन्द्र चैव गोविन्दं नमस्ते पङ्कजप्रियम्