ततः प्रोवाच वचनं तावुभौ पुरुषोत्तमौ
क्व तपः क्व जटाभारः क्व चेमौ प्रवरायुधौ
सामर्थ्ये सति यः कुर्यात् तत्संपद्येत तस्य हि
मयि तिष्ठति दैत्येन्द्रे धर्मसेतुप्रवर्तके
न कश्चिच्छक्नुयाद् योद्धुं नरनारायणौ युधि
यथा कथञ्चिज्जेष्यामि नरनारायणौ रणे
वितत्य चापं गुणमाविकृष्य तलध्वनिं घोरतरं चकार
मुमोच तानप्रतिमैः पृषत्कैश्चिच्छेद दैत्यस्तपनीयपुङ्खैः
क्रुद्धः समानम्य महाधनुस्ततो मुमोच चान्यान् विविधान् पृषत्कान्
नरस्तु बाणान् प्रमुमोच पञ्च षड् द्रत्यनाथो निशितान् पृषत्कान्
षट्त्रीणि चैकं च दितीश्वरेण मुक्तानि बाणानि नराय विप्र
षट् सप्त चाष्टौ नव षण्नरेण द्विसप्ततिं दैत्यपतिः ससर्ज्ज
ततो ऽप्यसंख्येयतरान् हि बाणान् मुमोचतुस्तौ सुभृशं हि कोपात्
स चापि दैत्यप्रवरः पृषत्कैश्चिच्छेद वेगात् तपनीयपुङ्खैः
युद्धे वरास्त्रैर्युध्येतां घोररूपैः परस्परम्
महेश्वरास्त्रं पुरुषोत्तमेव समं समाहत्य निपेततुस्तौ
गदां प्रगृह्य तरसा प्रचस्कन्द रथोत्तमात्
दृष्ट्वाथ पृष्ठतश्चक्रे नरं योद्धूमनाः स्वयम्
ख्यातं पुराणर्षिमुदारविक्रमं नारायणं नारद लोकपालम्
परिभ्राम्य गदां वेगात् मूर्ध्नि साध्यमताडयत्
नेत्राभ्यामपतद् वारि वह्निवर्षनिभं भुवि
जगाम शतधा ब्रह्मञ्शैलशृङ्गे यथाशनिः
आदाय कार्मुकं वीरस्तूणद् बाणं समाददे
मुमोच साध्याय तदा क्रोधन्धकारिताननः
चिच्छेद बाणैरपरैर्निर्बिभेद च दानवम्
आविध्येतां तदान्योन्यं मर्मभिद्भिरजिह्यगैः
दिदृक्षूणां तदा युद्धं लघु चित्रं च सुष्ठु च
पुष्पवर्षमनौपम्यं मुमुचुः साध्यदैत्ययौः
अयुध्येतां महेष्वासौ प्रेक्षकप्रीतिवर्द्धनम्
दिशश्च विदिशश्चैव छादयेतां शरोत्करैः