निमन्त्र्य यज्ञवाटस्य द्वारपालत्वमादिशत्
भृगुं च मन्त्रसंस्कारे सम्यग् दक्षं प्रयुक्तवान्
धनानामाधिपत्ये च युक्तवान् हि प्रजापतिः
सशङ्करां सतीं मुक्त्वा मखे सर्वान् न्यमन्त्रयत्
ज्येष्ठः श्रेष्ठो वरिष्ठो ऽपि आद्यो ऽपि न निमन्त्रितः
कपालीलि विदित्वेशो दक्षेण न निमन्त्रितः
किमर्थं देवताश्रेष्ठः शूलपाणिस्त्रिलोचनः कपाली भगवाञ्जातः कर्मणा केन शङ्करः
प्रोक्तमादिपुराणे च ब्रह्मणाव्यक्तमूर्त्तिना
नष्टटन्द्रार्कनक्षत्रं प्रणष्टपवनानलम्
निमग्नुपर्वततरु तमोभूतं सुदुर्दसम्
रात्र्यन्ते सृजते लोकान् राजसं रूपास्थितः
स्रष्टा चराचरस्यास्य जगतो ऽद्भुतदर्शनः
शूलपाणिः कपर्द्दी च अक्षमालां च दर्शयन्
येनाक्रान्ताव् उभौ देवौ तावेव ब्रह्मशङ्करौ
को भवानिह संप्राप्तः केन सृष्टो ऽसि मां वद
भवतो जनकः को ऽत्र जननी वा तदुच्यताम्
परिवादो ऽभवत् तत्र उत्पत्तिर्भवतो ऽभवत्
धारयन्नतुलां वीणां कुर्वन् किलकिलाध्वनिम्
तस्थावधोमुखो दीनो ग्रहाक्रान्तो यथा शशी
क्रोधान्धकारितं रुद्रं पञ्चमो ऽथ मुखो ऽब्रोवीत्
दिग्वासा वृषभारूढो लोकक्षयकरो भवान्
निर्दग्धुकामस्त्वनिशं ददर्श भगवानजः
श्वेतं च रक्तं कनकावदातं नीलं तथा पिङ्गजटं च शुभ्रम्
समाहतस्याथ जलस्य बुद्बुदा भवन्ति किं तेषु पराक्रमो ऽस्ति
नखाग्रेण शिरश्छिन्नं ब्राह्मं परुषवादिनम्
पतते न कदाचिच्च तच्छङ्करकराच्छिरः
सृष्टस्तु पुरुषो धीमान् कवची कुण्डली शरी
चतुर्भुजो महातूणी आदित्यसमदर्शनः
भवान् पापसमायुक्तः पापिष्ठं को जिघांसति
त्रपायुक्तो जगामाथ रुद्रो बदरिकाश्रमम्