वहुकल्प महाकल्प नमस्ते कल्पनामुख
नील रक्त महानील अनिरुद्ध नमो ऽस्तु ते
व्योमकात्मक सुब्रह्मन् भूतात्मक नमो ऽस्तु ते
मुञ्जकेश हृषीकेश सर्वनाथ मनो ऽस्तु ते
श्वेतपीताम्बरधर नीलवास नमो ऽस्तु ते
गोविन्द प्रीतिकर्ता च हंस पीताम्बरप्रिय
वामनाय नमस्ते ऽस्तु नमस्ते मधुसूदन
नमस्ते धर्मनेत्राय महानेत्राय ते नमः
नमो यज्ञवराहाय महारूपाय ते नमः
विश्वरूप नमस्ते ऽस्तु त्वत्तो विश्वमभूदिदम्
स्कन्धपत्राङ्कुरलतापल्लवाय नमो ऽस्तु ते
नाभ्या ह्यभूदन्तरिक्षं शशाङ्को मनसस्तव
पार्श्वाद् विशश्चेरुयुगाज्जाताः शूद्राश्च पादतः
नाभ्या ह्यभूदन्तरिक्षं शशाङ्को मनसस्तव
क्रोधात् त्रिनयनो रुद्रः शीर्ष्णोः द्यौः समवर्तत
ओषध्यो रोमसंभूता विराजस्त्वं नमो ऽस्तु ते
ओङ्कारस्त्वं वषट्कारो वौषट् त्वं च स्वधा सुधा
सर्वाकार निराकार वेदाकार नमो ऽस्तु ते
सर्वतीर्थमयश्चैव सर्वयज्ञमयस्तथा
नमः सहस्रधाराय शतधाराय ते नमः
सुवर्णब्रह्मदात्रे च सर्वदात्रे च ते नमः
परब्रह्म नमस्ते ऽस्तु शब्दब्रह्म नमो ऽस्तु ते
बुद्धिस्त्वमपि बोध्यश्च बोधस्त्वं च नमो ऽस्तु ते
पाता पोता च पुतश्च पावनीयश्च ॐ नमः
हर्त्ता नेता च नीतिश्च पूज्यो ऽग्र्यो विश्वधार्यसि
यज्ञपात्राणेयस्त्वमेकधा बहुधा त्रिधा
ज्ञाता ज्ञेयस्तथा ज्ञानं ध्येयो ध्यातासि चेश्वर
योगाङ्गानि त्वमीशानः सर्वगस्त्वं नमो ऽस्तु ते
दीक्षा त्वं त्वं पुरोडाशस्त्वं पशुः पशुवाह्यसि
महाजनो निरयनः सहस्रार्केन्दुरूपवान्