ततः शापापनोदं तु स्तुते लप्स्यसि केशवे
स्तुहि भक्तिं दृढां कृत्वा ततः पापाद् विमोक्ष्यसे
स्तुतो हि भक्त्या नॄणां वै सर्वपापहरो हरिः
तदैव तपसे श्रीमान् शालग्राममगाद् वशी
देवक्रियारतिर्भूत्वा तपस्तेपे निशाचरः
सर्वपापविनिर्मुक्तो विष्णुलोकमवाप्तवान्
विप्रवक्त्रस्थया सम्यक्सरस्वत्या समीरितम्
पठष्यति स सर्वेभ्यः पापेभ्यो मोक्षमाप्स्यति
वासुदेव नमस्ते ऽस्तु बहुरूप नमो ऽस्तु ते
श्रीनिवास नमस्ते ऽस्तु नमस्ते भूतभावन
ध्रुवध्वज नमस्तो ऽस्तु सत्यध्वज नमो ऽस्तु ते
तालध्वज नमस्ते ऽस्तु नमस्ते गरुहध्वज
नमो जयन्त विजय जयानन्त पराजित
अनाद्याद्यन्त मध्यान्त नमस्ते पद्मजप्रिय
शुभञ्जय नमस्ते ऽस्तु नमस्ते ऽस्तु धनञ्जय
नमो हिरण्यगर्भाय पद्मगर्भाय ते नमः
कालनाभ नमस्तुभ्यं महानाभ नमो नमः
धर्मावास जलावास श्रीनिवास नमो ऽस्तु ते
सेनाध्यक्ष नमस्तुभ्यं कालाध्यक्ष नमो नमः
वनमालाधर हरे नमस्ते धरणीधर
वहुकल्प महाकल्प नमस्ते कल्पनामुख
नील रक्त महानील अनिरुद्ध नमो ऽस्तु ते
व्योमकात्मक सुब्रह्मन् भूतात्मक नमो ऽस्तु ते
मुञ्जकेश हृषीकेश सर्वनाथ मनो ऽस्तु ते
श्वेतपीताम्बरधर नीलवास नमो ऽस्तु ते
गोविन्द प्रीतिकर्ता च हंस पीताम्बरप्रिय
वामनाय नमस्ते ऽस्तु नमस्ते मधुसूदन
नमस्ते धर्मनेत्राय महानेत्राय ते नमः
नमो यज्ञवराहाय महारूपाय ते नमः
विश्वरूप नमस्ते ऽस्तु त्वत्तो विश्वमभूदिदम्