कृतं यदशुभं कर्म कायेन मनसा गिरा
तत् क्षिप्रं विलयं यातु वासुदेवस्य कीर्तनात्
परपीडोद्भवां निन्दां कुर्वता यन्महात्मनाम्
तद् यातु विलयं तोये यथा लवणभाजनम्
वयःपरिणतौ यच्च यच्च जन्मातरे कृतम्
प्रयातु विलयं तोये यथा लवणभाजनम्
जनार्दनाय कृष्णाय नमो भूयो नमो नमः
अरिष्टकेशिचणूरदेवारिक्षयिणे नमः
को ऽन्यो नाशयति बलाद् दर्पं हैहयभूपतेः
वधिष्यति दशग्रीवं कः सामात्यपुरःसरम्
निहन्ताप्यथबा शास्ता देवदेव भविष्यति
इष्टानिष्टप्रसंगेभ्यो ज्ञानतो ऽज्ञानतो ऽपि वा
महापातकसंज्ञं वा तथा चैवोपपातकम्
नाशयेद् योगिनां सर्वमामपात्रमिवाम्भसि
अहन्यहनि यो दद्यात् पठत्येतच्च तत्समम्
विष्णुलोकमवाप्नोति सत्यमेतन्मयोदितम्
राक्षसस्त्रस्तसर्वाङ्गं तथा मामेष मुञ्चतु
अकामेन द्विजो भूयस्तमाह रजनीचरम्
विष्णोः सारस्वतं स्तोत्रं यज्जगाद सरस्वती
जगादैनं स्तवं विष्णोः सर्वेषां चोपशान्तिदम्
ततः शापापनोदं तु स्तुते लप्स्यसि केशवे
स्तुहि भक्तिं दृढां कृत्वा ततः पापाद् विमोक्ष्यसे
स्तुतो हि भक्त्या नॄणां वै सर्वपापहरो हरिः
तदैव तपसे श्रीमान् शालग्राममगाद् वशी
देवक्रियारतिर्भूत्वा तपस्तेपे निशाचरः
सर्वपापविनिर्मुक्तो विष्णुलोकमवाप्तवान्
विप्रवक्त्रस्थया सम्यक्सरस्वत्या समीरितम्
पठष्यति स सर्वेभ्यः पापेभ्यो मोक्षमाप्स्यति
वासुदेव नमस्ते ऽस्तु बहुरूप नमो ऽस्तु ते
श्रीनिवास नमस्ते ऽस्तु नमस्ते भूतभावन