तमन्तपुरुषं रुद्रं प्रणतो ऽस्मि सनातनम्
यो वै नृत्यति रुद्रात्मा प्रणतो ऽस्मि जनार्दनम्
संभूता यस्य देवस्य सर्वगं तं नमाम्यहम्
यस्यांशभूता देवस्य सर्वगं तं नतो ऽस्मयहम्
एकांशभूता देवस्य सर्वगं तं नमाम्यहम्
यः सर्वमध्यगो ऽनन्तः सर्वगं तं नमाम्यहम्
विष्णुरेवं तथा पापं ममाशेषं प्रणश्यतु
यच्च ज्ञानपरिच्छेद्यं पापं नश्यतु मे तथा
अनेकजन्मकर्मोत्थं पापं नश्यतु मे तथा
संध्ययोश्च कृतं पापं कर्मणा मनसा गिरा
कृतं यदशुभं कर्म कायेन मनसा गिरा
तत् क्षिप्रं विलयं यातु वासुदेवस्य कीर्तनात्
परपीडोद्भवां निन्दां कुर्वता यन्महात्मनाम्
तद् यातु विलयं तोये यथा लवणभाजनम्
वयःपरिणतौ यच्च यच्च जन्मातरे कृतम्
प्रयातु विलयं तोये यथा लवणभाजनम्
जनार्दनाय कृष्णाय नमो भूयो नमो नमः
अरिष्टकेशिचणूरदेवारिक्षयिणे नमः
को ऽन्यो नाशयति बलाद् दर्पं हैहयभूपतेः
वधिष्यति दशग्रीवं कः सामात्यपुरःसरम्
निहन्ताप्यथबा शास्ता देवदेव भविष्यति
इष्टानिष्टप्रसंगेभ्यो ज्ञानतो ऽज्ञानतो ऽपि वा
महापातकसंज्ञं वा तथा चैवोपपातकम्
नाशयेद् योगिनां सर्वमामपात्रमिवाम्भसि
अहन्यहनि यो दद्यात् पठत्येतच्च तत्समम्
विष्णुलोकमवाप्नोति सत्यमेतन्मयोदितम्
राक्षसस्त्रस्तसर्वाङ्गं तथा मामेष मुञ्चतु
अकामेन द्विजो भूयस्तमाह रजनीचरम्
विष्णोः सारस्वतं स्तोत्रं यज्जगाद सरस्वती
जगादैनं स्तवं विष्णोः सर्वेषां चोपशान्तिदम्