षष्ठे काले नृशंसात्मा भक्षयिष्यामि निर्घृणः
चिन्तामवाप महतीमशक्तस्तदुदीरणे
जगाम ज्ञानदानाय संशयं परमं गतः
व्रतानि वा सुचीर्णानि सप्तार्चिः पातु मां ततः
सर्वदैवावगच्छामि तथा मां पातु पावकः
अवजानाम्यहं तेन पातु सत्येन पावकः
सप्तर्चिषा समादिष्टा प्रादुरासीत् सरस्वती
मा भैर्द्विजसुताहं त्वां मोक्षयिष्यामि संकटात्
तत् सर्वं कथयिष्यामि ततो मोक्षमवाप्स्यसि
अदर्शानं गता सो ऽपि द्विजः प्राह निशाचरम्
समस्तपापशुद्ध्यर्थं पुण्योपचयदं च यत्
असंशयं सदा जप्यो जपतां पुष्टिशान्तिदः
प्रणतो ऽस्मि जगन्नाथं स मे पापं व्यपोहतु
प्रणतो ऽस्मि परं देवं स मे पापं व्यपोहतु
प्रणतो ऽस्मि पतिं लक्ष्म्याः स मे पापं व्यपोहतु
प्रणतो ऽस्मि स्तुतं स्तुत्यैः स मे पापं व्यपोहतु
प्रणतो ऽस्मि धराधारं स मे पापं व्यपोहतु
प्रणतो ऽस्मि महाबाहुं स मे पापं व्यपोहतु
प्रणतो ऽस्मि श्रियः कान्तं स मे पापं व्यपोहतु
वासुदेवमनिर्देश्यं तमस्मि शरणं गतः
ध्यायन्ति वासुदेवाख्यं तमस्मि शरणं गतः
वासुदेवं परं ब्रह्म तमस्मि शरणं गतः
कर्मक्षये ऽक्षयं देवं तमस्मि शरणं गतः
न योगिनः प्राप्नुवन्ति तमस्मि शरणं गतः
यः सृजत्यच्युतो देवस्तमस्मि शरणं गतः
प्रभुः पुरातनो जज्ञे तमस्मि शरणं गतः
स्रष्टृत्वे संस्थितं सृष्टौ प्रणतो ऽस्मि सनातनम्
तमादिपुरुषं विष्णुं प्रमतो ऽस्मि जनार्दनम्
येन तं विष्णुमाद्येशं प्रणतो ऽस्मि जनार्दनम्
तं यज्ञपुरुषं विष्णुं प्रणतो ऽस्मि सनातनम्