आयास्यामि तवाद्यैव निवेद्य गुरवे फलम्
ममात्र निष्ठा प्राप्तस्य फलानि विनिवेदितुम्
निवेद्य गुरवे यावदिहागच्छाम्यहं फलम्
प्रतिमुच्येत देवो ऽपि इति मे पापाजीविका
मुञ्चाम्यहमसंदिग्धं यदि तत्कुरुते भवान्
तत्करिष्याम्यहं रक्षो यन्न व्रतहरं मम
निर्विवेकेन चित्तेन पापकर्म सदा कृतम्
तत्पापासंक्षयान्मोक्षं प्राप्नुयां येन तद् वद
दुष्टां योनिमिमां प्राप्य तन्मुक्तिं कथय द्विज
ततः क्षुधार्तान्मत्तस्त्वं नियतं मोक्षमाप्स्यसि
षष्ठे काले नृशंसात्मा भक्षयिष्यामि निर्घृणः
चिन्तामवाप महतीमशक्तस्तदुदीरणे
जगाम ज्ञानदानाय संशयं परमं गतः
व्रतानि वा सुचीर्णानि सप्तार्चिः पातु मां ततः
सर्वदैवावगच्छामि तथा मां पातु पावकः
अवजानाम्यहं तेन पातु सत्येन पावकः
सप्तर्चिषा समादिष्टा प्रादुरासीत् सरस्वती
मा भैर्द्विजसुताहं त्वां मोक्षयिष्यामि संकटात्
तत् सर्वं कथयिष्यामि ततो मोक्षमवाप्स्यसि
अदर्शानं गता सो ऽपि द्विजः प्राह निशाचरम्
समस्तपापशुद्ध्यर्थं पुण्योपचयदं च यत्
असंशयं सदा जप्यो जपतां पुष्टिशान्तिदः
प्रणतो ऽस्मि जगन्नाथं स मे पापं व्यपोहतु
प्रणतो ऽस्मि परं देवं स मे पापं व्यपोहतु
प्रणतो ऽस्मि पतिं लक्ष्म्याः स मे पापं व्यपोहतु
प्रणतो ऽस्मि स्तुतं स्तुत्यैः स मे पापं व्यपोहतु
प्रणतो ऽस्मि धराधारं स मे पापं व्यपोहतु
प्रणतो ऽस्मि महाबाहुं स मे पापं व्यपोहतु
प्रणतो ऽस्मि श्रियः कान्तं स मे पापं व्यपोहतु
वासुदेवमनिर्देश्यं तमस्मि शरणं गतः