ते यान्तु सौम्यतां सद्यो गरुडेनेव पन्नगाः
प्रेता विनायकाः क्रूरा मनुष्या जृम्भकाः खगाः
सर्वे भवन्तु मे सौम्या विष्णुचक्ररवाहताः
बलौजसां च हर्तारश्छायाविध्वंसकाश्च ये
कूष्माण्डास्ते प्रणश्यन्तु विष्णुचक्ररवाहताः
ममास्तु देवदेवस्य वासुदेवस्य कीर्तनात्
तमीड्यमीशानमनन्तमच्युतं जनार्दनं प्रणिपतितो न सीदति
ऋतेन तेनाच्युतनामकीर्तनात्प्रणाशमेतु त्रिविधं ममासुभम्
संस्थितो ऽसावपि बली राक्षसः समुपाद्रवत्
निर्धूतवेगः सहसा तस्थौ मासचतुष्टयम्
जाते जप्यावसाने ऽसौ त ददर्श निशाचरम्
तं दृष्ट्वा कृपयाविष्टः समाश्वास्य निशाचरम्
स्वभावमात्मनो द्रष्टुं रक्षया तेजसः क्षितिम्
प्रसीदेत्यब्रवीद् विप्रं निर्विण्णाः स्वेन कर्मणा
अनागसां च सत्त्वानामल्पकानां क्षयः कृतः
पापप्रशमनायालं कुरु मे धर्मदेशनम्
तस्य तद् वचनं श्रुत्वा राक्षसस्य द्विजोत्तमः
सहसैव समायाता जिज्ञासा धर्मवर्त्मनि
तव संसर्गतो ब्रह्मन् जातो निर्वेद उत्तमः
यस्याः संसर्गसासाद्य निर्वेदं प्रापितं परम्
यथा पापापनोदो मे भवत्यार्य तथा कुरु
प्रत्युवाच महाभागो विमृश्य सुचिरं मुनिः
युक्तमेतद्धि पापानां निवृत्तिरुपकारिका
तान् संपृच्छ द्विजान् सौम्य ये वै प्रवचने रताः
कथं पापापनोदः स्यादिति चिन्ताकुलेन्द्रियः
षष्ठे षष्ठे तदा काले जन्तुमेकमभक्षयत्
ददर्शाथ फलाहारमागतं ब्रह्मचारिणम्
निराशो जीविते प्राह सामपूर्वं निशाचरम्
तदनुब्रूहि भद्रं ते अयमस्म्यनुशाधि माम्
निःश्रीकस्यातिपापस्य निर्घृणस्य द्विजद्रुहः