तेनैव कर्मदोषेण नान्यां वृत्तिमरोचयत्
चखाद रौद्रकर्मासौ बाहुगोचरमागतम्
जगाम च महान् कालः परिणामं तथा वयः
महाभागमूर्ध्वभुजं यथावत्संयतेन्द्रियम्
योगाचार्यं शुचिं दक्षं वासुदेवपरायणम्
प्रतीच्यां शार्ङ्गधृग्विष्णुर्विष्णुः खड्गी ममोत्तरे
क्रोडरूपी हरिर्भूमौ नारसिंहो ऽम्बरे मम
अस्यांशुमाला दुष्प्रेक्ष्या हन्तुं प्रेतनिशाचरान्
रक्षोभूतपिशाचानां डाकिनीनां च शातनी
तिर्यङ्मनुष्यकूष्माण्डप्रेतादीन् हन्त्वशेषतः
ते यान्तु सौम्यतां सद्यो गरुडेनेव पन्नगाः
प्रेता विनायकाः क्रूरा मनुष्या जृम्भकाः खगाः
सर्वे भवन्तु मे सौम्या विष्णुचक्ररवाहताः
बलौजसां च हर्तारश्छायाविध्वंसकाश्च ये
कूष्माण्डास्ते प्रणश्यन्तु विष्णुचक्ररवाहताः
ममास्तु देवदेवस्य वासुदेवस्य कीर्तनात्
तमीड्यमीशानमनन्तमच्युतं जनार्दनं प्रणिपतितो न सीदति
ऋतेन तेनाच्युतनामकीर्तनात्प्रणाशमेतु त्रिविधं ममासुभम्
संस्थितो ऽसावपि बली राक्षसः समुपाद्रवत्
निर्धूतवेगः सहसा तस्थौ मासचतुष्टयम्
जाते जप्यावसाने ऽसौ त ददर्श निशाचरम्
तं दृष्ट्वा कृपयाविष्टः समाश्वास्य निशाचरम्
स्वभावमात्मनो द्रष्टुं रक्षया तेजसः क्षितिम्
प्रसीदेत्यब्रवीद् विप्रं निर्विण्णाः स्वेन कर्मणा
अनागसां च सत्त्वानामल्पकानां क्षयः कृतः
पापप्रशमनायालं कुरु मे धर्मदेशनम्
तस्य तद् वचनं श्रुत्वा राक्षसस्य द्विजोत्तमः
सहसैव समायाता जिज्ञासा धर्मवर्त्मनि
तव संसर्गतो ब्रह्मन् जातो निर्वेद उत्तमः
यस्याः संसर्गसासाद्य निर्वेदं प्रापितं परम्