प्रपद्ये देवदेवेशमणीयांसमणोः सदा
नमः सहस्रशिरसे अनन्ताय महात्मने
कीर्तयन्ति च यं सर्वे ब्रह्मादीनां परायणम्
सुब्रह्मण्य नमस्ते ऽस्तु त्राहि मां शरणागतम्
प्रीतिमानभवद् विष्णुः शङ्खचक्रगदाधरः
गरुडस्थो जगत्स्वामी लोकाधारस्तपोधनः
उज्जहाराप्रमेयात्मा तरसा मधुसूदनः
मोक्षयामास नागेन्द्रं पाशेभ्यः शरणागतम्
ग्राहत्वमगमत् कृष्णाद् वधं प्राप्य दिवं गतः
आपद्विक्तौ युगपद् गजगन्धर्वसत्तमौ
अभवत् त्वथ देवेशस्ताभ्यां चैव प्रपूजितः
संस्मरिष्यन्ति मनुजाः प्रयताः स्थिरबुद्धयः
दुःस्वप्नो नश्यते तेषां सुस्वप्नश्च भविष्यति
नारसिंहं च नागेन्द्रं सृष्टिप्रलयकारकम्
सर्वपापैः प्रमुच्यन्ते पुण्यं लोकमवाप्नुयुः
स्पर्शयामास हस्तेन गजं गन्धर्वमेव च
जगाम शरणं विप्र नारायणपरायमः
पापबनधाच्च शापाच्च ग्राहं चाद्भुतकर्मकृत्
गतः स भगवान् विष्णुर्दुर्विज्ञेयगतिः प्रभुः
ववन्दिरे महात्मानं प्रभुं नारायणं हरिम्
विस्मयोत्फूल्लनयनाः संस्तुवन्ति जनार्दनम्
गजेन्द्रमोक्षणं दृष्ट्वा इदं वचनमब्रवीत्
प्राप्नुयात् परमां सिद्धिं दुःस्वप्नस्तस्य नश्यति
गजेन्द्रमोक्षणेनेह सद्यः पापात् प्रमुच्यते
यस्मिन् किलोक्ते बहुपापबन्धनात् लभ्येत मोक्षो द्विरदेन यद्वत्
तं देवगुह्यं पुरुषं पुराणं वन्दाम्यहं लोकपतिं वरेण्यम्
यं कीर्त्य संश्रुत्य तथा विचिन्त्य पापापनोदं पुरुषो लभेत
परपीडारुचिः क्षुद्रः स्वभावादपि निर्घृणः
स त्वायुषि परिक्षिणे जज्ञे घोरो निशाचरः
क्रुरैश्चक्रे ततो वृत्तिं राक्षसत्वाद् विशेषतः