परमापदमापन्नो मनसाचिन्तयद्धरिम्
तमेव शरणं देवं गतः सर्वात्मना तदा
जन्मजन्मान्तराभ्यासात् भक्तिमान् गरुडध्वजे
मथितामृतफेनाभं शङ्खचक्रगदाधरम्
आपद्विमोक्षमन्विच्छन् गजः स्तोत्रमुदीरयत्
अनाश्रिताय देवाय निःस्पृहाय नमो ऽस्तु ते
अन्तराय चैकाय अव्यक्ताय नमो नमः
अप्रर्क्याप्रमेयाय अतुलाय नमो नमः
सनातनाय पूर्वाय पुराणाय नमो नमः
नमो जगत्प्रतिष्ठाय गोविन्दाय नमो नमः
विश्वेश्वराय देवाय शिवाय हरये नमः
नारायणाय विश्वाय देवानां परमात्मने
श्रीशार्ङ्गचक्रासिगदाधराय नमो ऽस्तु तस्मै पुरुषोत्तमाय
ब्रह्मेन्द्ररुद्रमुनिचारणसंस्तुताय देवोत्तमाय वरदाय नमो ऽच्युताय
पीताम्बराय मधुकैटभनाशनाय विश्वाय चारुमुकुटाय नमो ऽजराय
नानाविचित्रमुकुटाङ्गदभूषणाय सर्वेश्वराय वरदाय नमो वराय
देवेन्द्रविघ्नशमनोद्यतपौरुषाय योगेश्वराय विरजाय नमो वराय
नारायणायात्महितायनाय महावराहाय नमस्करोमि
युगान्तशेषं पुरुषं पुराणं तं देवदेवं शरणं प्रपद्ये
क्षेत्रज्ञमात्मप्रभवं वरेण्यं तं वासुदेवं शरणं प्रपद्य
वदन्ति यं वै पुरुषं सनातनं तं देवगुह्यं शरणं प्रपद्ये
तमीश्वरं तृप्तमनुत्तमैर्गुणैः परायणं विष्णुमुपैमि साश्वतम्
महाबलं वेदनिधिं सुरेशं व३जामि विष्णुं शरणं जनार्दनम्
पीताम्बरं काञ्चनभक्तिचित्रं मालाधरं केशवमभ्युपैमि
आदित्यरुद्राश्विवसुप्रभावं प्रभुं प्रपद्ये ऽच्युतमात्मवन्तम्
प्रपद्ये सूक्ष्ममचलं वरेण्यमभयप्रदम्
प्रपद्ये मुक्तसंगानां यतीनां परमां गतिम्
शरण्यं शरणं भक्त्या प्रपद्ये भक्तवत्सलम्
योगात्मानं महात्मानं प्रपद्ये ऽहं जनार्दनम्
नारायणमणीयांसं प्रपद्ये ब्राह्मणप्रियम्