गन्धर्वैः किन्नरैर्यक्षैः सिद्धचारणपन्नगैः
वृकद्वीपिगजेन्द्रश्च वृगात्रो विराजते
चूतनीपकदम्बैश्च चन्दनागुरुचम्पकैः
तथान्यैर्विविधैर्वृक्षैः सर्वतः समलङ्कृतः
शोभितो रुचिरप्रख्यैस्त्रिभिर्विस्तीर्णसानुभिः
जीवञ्जीवकसंघुष्टैश्चकोरशिखिनादितैः
नानापुष्पसमाकीर्णं नानागन्धाधिवासितम्
पाण्डुराम्बुदसंकाशं तुषारचयसंनिभम्
तृतीयं ब्रह्मसदनं प्रकृष्टं शृङ्गमुत्तमम्
नातप्ततपसो लोके ये च पापकृतो जनाः
कारण्डवसमाकीर्णं राजहंसोपशोभितम्
कमलैः शतपत्रैश्च काञ्चनैः समलङ्कृतम्
गुल्मैः कीचकवेणूनां समन्तात् परिवेष्टितम्
आसीद् ग्राहो गजेन्द्राणां रिपुराकेकरेक्षमः
मदस्रावी जलाकाङ्क्षी पादचारीव पर्वतः
गजो ह्यञ्जनसंकाशो मदाच्चलितलोचनः
सलीलः पङ्कजवने यूथमध्यगतश्चरन्
पश्यन्तीनां करेणूनां क्रोशन्तीनां च दारुणम्
वारुणैः संयतः पाशैर्निष्प्रयत्नगतिः कृतः
विस्फूर्य च यथाशक्ति विक्रोसंश्च महारवान्
परमापदमापन्नो मनसाचिन्तयद्धरिम्
तमेव शरणं देवं गतः सर्वात्मना तदा
जन्मजन्मान्तराभ्यासात् भक्तिमान् गरुडध्वजे
मथितामृतफेनाभं शङ्खचक्रगदाधरम्
आपद्विमोक्षमन्विच्छन् गजः स्तोत्रमुदीरयत्
अनाश्रिताय देवाय निःस्पृहाय नमो ऽस्तु ते
अन्तराय चैकाय अव्यक्ताय नमो नमः
अप्रर्क्याप्रमेयाय अतुलाय नमो नमः
सनातनाय पूर्वाय पुराणाय नमो नमः
नमो जगत्प्रतिष्ठाय गोविन्दाय नमो नमः