स्थितः स्थिण्डिलशायी तु पठन् सारस्वतं स्तवम्
जगाम दानवो द्रष्टुं सर्वपापहरं हरिम्
यौ पुरा भगवान् प्राह क्रोडरूपी जनार्दनः
पूजयन् भगवत्पादौ महाभागवतो मुने
यत्कीर्त्तनाच्छ्रवणात् स्पर्शनाच्च विमुक्तपापा मनुजा भवन्ति
गजेन्द्रमोक्षणादींस्तु चतुरस्तान् वदस्व मे
दुःस्वप्ननाशो भवति यैरुक्तैः संश्रुतैः स्मृतैः
सारस्वतं ततः पुण्यौ पापप्रशमनौ स्तवौ
सुतः पर्वतराजस्य सुमेरोर्भास्करद्युतेः
उत्थितः सागरं भित्त्वा देवर्षिगणसेवितः
गन्धर्वैः किन्नरैर्यक्षैः सिद्धचारणपन्नगैः
वृकद्वीपिगजेन्द्रश्च वृगात्रो विराजते
चूतनीपकदम्बैश्च चन्दनागुरुचम्पकैः
तथान्यैर्विविधैर्वृक्षैः सर्वतः समलङ्कृतः
शोभितो रुचिरप्रख्यैस्त्रिभिर्विस्तीर्णसानुभिः
जीवञ्जीवकसंघुष्टैश्चकोरशिखिनादितैः
नानापुष्पसमाकीर्णं नानागन्धाधिवासितम्
पाण्डुराम्बुदसंकाशं तुषारचयसंनिभम्
तृतीयं ब्रह्मसदनं प्रकृष्टं शृङ्गमुत्तमम्
नातप्ततपसो लोके ये च पापकृतो जनाः
कारण्डवसमाकीर्णं राजहंसोपशोभितम्
कमलैः शतपत्रैश्च काञ्चनैः समलङ्कृतम्
गुल्मैः कीचकवेणूनां समन्तात् परिवेष्टितम्
आसीद् ग्राहो गजेन्द्राणां रिपुराकेकरेक्षमः
मदस्रावी जलाकाङ्क्षी पादचारीव पर्वतः
गजो ह्यञ्जनसंकाशो मदाच्चलितलोचनः
सलीलः पङ्कजवने यूथमध्यगतश्चरन्
पश्यन्तीनां करेणूनां क्रोशन्तीनां च दारुणम्
वारुणैः संयतः पाशैर्निष्प्रयत्नगतिः कृतः
विस्फूर्य च यथाशक्ति विक्रोसंश्च महारवान्