इत्येवं रुद्रकोटीति नाम्ना शंभुरजायत
रुद्रकोटिं समभ्यर्च्य जगाम कुरुजाङ्गलम्
सरस्वतीजले मग्नं ददर्श सुरपूजितम्
स्नात्वा दसाश्वमेधे च संपूज्य च सुरान् पितृन्
अभिवाद्य गुरुं शुक्रं सोमतीर्थं जगाम ह
क्षीरिकावासमभ्येत्य स्नानं चक्रे महायशाः
भूयः कुरुध्वजं दृष्ट्वा पद्माख्यां नगरी गतः
कुमारधारामभ्येत्य ददर्श स्वामिनं वशी
दृष्ट्वा स्कन्दं समभ्यर्च्य नर्मदायां जगाम ह
जगाम भूधरं द्रष्टुं वाराहं चक्रधारिणम्
त्रिसौवर्णं महादेवमर्बुदेशं जगाम ह
कालिञ्जरं समभ्येत्य नीलकण्ठं ददर्श सः
जगाम सागरानूपे प्रभासे द्रष्टुमीश्वरम्
सोमेश्वरं लोकपतिं ददर्श स कपर्दिनम्
आप्यायितः शङ्करेण विष्णुना सकपर्दिना
तत्र रुद्रं समभ्यर्च्य प्रजगामोत्तरान् कुरून्
तत्र स्नात्वार्ऽच्य विश्वेशं भीमं त्रैलोक्यवन्दितम्
तमर्च्य ब्राह्मणीं गत्वा स्नात्वार्ऽच्य त्रिदशेश्वरम्
ततश्च कुण्डिनं गत्वा संपूज्य प्रामतृप्तिदम्
मागधारण्यमासाद्य ददर्श वसुधाधिपम्
महातीर्थे ततः स्नात्वा वासुदेवं प्रणम्य च
महाकोश्यां महादेवं हंसाख्यं भक्तिमानथ
पूजयित्वा महाबाहुः प्रजागाम त्रिविष्टपम्
तं दृष्ट्वार्ऽच्य हरिं चासौ तीर्थं कनखलं ययौ
धनाधिपं च मेघङ्कं ययावथ गिरिव्रजम्
संपूजयित्वा पिधिवत्कामरूपं जगाम ह
जगाम तीर्थप्रवरं महाख्यं तस्मिन् महादेवमपूजयत्
तमीड्य भक्त्या तु गजेन्द्रसोक्षणं जजाप जप्यं परमं पवित्रम्
निवेद्य विप्रप्रवरेषु काञ्चनं जगाम घोरं स हि दण्डकं वनम्
ददर्श पुण्डरीकाक्षं महाश्वापदवारणम्