दर्शनार्थ ययौ श्रीमान् अजितं पुरुषोत्तमम्
षड्रात्रमुष्य तत्रैव महेन्द्रं दक्षिणं ययौ
दृष्ट्वार्च्य संपूज्य पितॄन् महेन्द्रं चोत्तरं गतः
तत्र देववरं शंभुं गोपालं सोमपायिनम्. दृष्ट्वा स्नात्वा सोमतीर्थे सह्याचलमुपागतः
सुरान् पितृन् समभ्यर्च्य पारियात्रं गिरिं गतः
कशेरुदेशं चाभयेत्य विश्वरूपं ददर्श सः
विश्वरूपमथात्मानं दर्शयामास योगवित्
जगामाद्रिं स सौगन्धि प्रह्लादो मलायाचलम्
ततो जगाम योगात्मा द्रष्टुं विन्ध्ये सदाशिवम्
त्रिरात्रं समुपोष्याथ अवन्तीं नगरीं ययो
श्मशानस्थं ददर्शाथ महाकालवपुर्धरम्
तामसं रूपमास्थाय संहारं कुरुते वशी
रक्षितस्त्वन्तकं दग्ध्वा सर्वबूतापहारिणम्
वृतः प्रमथकोटीभिर्बहुभिस्त्रिदशार्चितः
यमसंयमनं मृत्योर्मृत्युं चित्रविचित्रकम्
पूजयित्वा शूलधरं जगाम निषधान् प्रति
महोदयं समभ्येत्य हयग्रीवं ददर्श सः
श्रीधरं चैव संपूज्य पञ्चालविषयं ययौ
पाञ्चालिकं वशी दृष्ट्वा प्रयागं परतो ययौ
दृष्ट्वा वटेश्वरं रुद्रं माधवं योगशायिनम्
माघमासमथोपोष्य ततो वाराणसीं गतः
सर्वपापहराद्येषु स्नात्वार्ऽच्य पितृदेवताः
लोलं दिवाकरं दृष्ट्वा ततो मधुवनं ययौ
तमभ्यर्च्य महातेजाः पुष्करारण्यमागमत्
पुष्कराक्षमयोगन्धि ब्रह्माणं चाप्यपूजयत्
कोटितीर्थे रुद्रकोटिं ददर्श वृषभध्वजम्
धर्मारण्याः पौष्करेया दण्डकारण्यकास्तथा
ते तत्र शङ्करं द्रष्टुं समायाता द्विजातयः
अहं पूर्वमहं पूर्वमित्येवं वादिनो मुन्
तेषामेवानुकम्पार्थं कोटिमूर्त्तिरभूद् भवः