दृष्ट्वा प्रोवाच वचनं स्मितं कृत्वा शुभव्रतः
नीयतां सुरलोकाय दीयतां वासवाय च
सहस्राक्षाय तां प्रादाद् रूपयौवनशालिनीम्
देवाराजाय कामाद्यास्ततो ऽभृद् विस्मयः परः
पातालेषु तथा मर्त्यै दिक्ष्वष्टासु जगाम च
अभिषिक्तस्तदा राज्ये प्रह्लादौ नाम दानवः
मखानि भुवि राजानो यजन्ते विधिवत्तदा
वैश्याश्च पशुवृत्तिस्थाः शूद्राः शुश्रूषणे रताः
आवर्त्तत ततो देवा वृत्त्या युक्ताभवान् मुने
जगाम नर्मदां स्नातुं तीर्थं चैवाकुलीश्वरम्
अवतीर्णं प्रजग्राह नागः केकरलोहितः
संस्मृते पुण्डरीकाक्षे निर्विषो ऽभून्महोरगः
निर्विषश्चापि तत्याज च्यवनं भुजगोत्तमः
चचार नागकन्याभिः पूज्यचमानः समन्ततः
संपूज्यमानो दैत्येन्द्रः प्रह्लादो ऽथ ददर्श तम्
संपूजितोपविष्टश्च पृष्टश्चागमनं प्रति
स्नातुमेवागतो ऽस्म्यद्य द्रष्टुञ्चैवाकुलीश्वरम्
समानीतो ऽस्मि पाताले दृष्टश्चात्र भवानपि
प्रोवाच धर्मसंयुक्तं स वाक्यं वाक्यकोविदः
रसातले च कानि स्युरेतद् वक्तुं ममार्हसि
चक्रतीर्थं महाबाहो रसातलतले विदुः
नेमिषै गन्तुकामस्तु दानवानितदब्रवीत्
द्रक्ष्यामः पुण्डरीकाक्षं पीतवाससमच्युतम्
चक्रुरुद्योगमतुलं निर्जग्मुश्च रसातलात्
नेमिषारण्यमागत्य स्नानं चक्रुर्मुदान्विताः
चरन् सरस्वतीं पुण्यां ददर्श विमलोदकाम्
ददर्श बाणानपरान् मुखे लग्नान् परस्परम्
दृष्ट्वातुलं तदा चक्रे क्रोधं दैत्येश्वरः किल
समुन्नतजटाभारौ तपस्यासक्तमानसौ
शार्ङ्गमागवं चैव अक्ष्य्यौ च महेषुधी