तमाराध्य विरूपाक्षं प्राप्तः क्षीरेण भोजनम्
तत्तीर्थवर्यं स महासुरो वै समाससादाथ सुपुण्यहेतोः
पूजयित्वा सुवर्णाक्षं नैमिषं प्रययौ ततः
तोम्त्याः काञ्चनाक्ष्याश्च गुरुदायाश्च मध्यतः
ऋषीनपि च संपूज्य नैमिषारण्यवासिनः
गयायां गोपतिं द्रष्टुं जगाम स महासुरः
पिण्डनिर्वपणं पुण्यं पिदृणां स चकार ह
गदापाणिं समभ्यर्च्य गोपतिं चापि शङ्करम्
महानदीजले स्नात्वा सरयूमाजगाम सः
उपोष्य रजनीमेकां विरजां नगरीं ययौ
दर्शनार्थ ययौ श्रीमान् अजितं पुरुषोत्तमम्
षड्रात्रमुष्य तत्रैव महेन्द्रं दक्षिणं ययौ
दृष्ट्वार्च्य संपूज्य पितॄन् महेन्द्रं चोत्तरं गतः
तत्र देववरं शंभुं गोपालं सोमपायिनम्. दृष्ट्वा स्नात्वा सोमतीर्थे सह्याचलमुपागतः
सुरान् पितृन् समभ्यर्च्य पारियात्रं गिरिं गतः
कशेरुदेशं चाभयेत्य विश्वरूपं ददर्श सः
विश्वरूपमथात्मानं दर्शयामास योगवित्
जगामाद्रिं स सौगन्धि प्रह्लादो मलायाचलम्
ततो जगाम योगात्मा द्रष्टुं विन्ध्ये सदाशिवम्
त्रिरात्रं समुपोष्याथ अवन्तीं नगरीं ययो
श्मशानस्थं ददर्शाथ महाकालवपुर्धरम्
तामसं रूपमास्थाय संहारं कुरुते वशी
रक्षितस्त्वन्तकं दग्ध्वा सर्वबूतापहारिणम्
वृतः प्रमथकोटीभिर्बहुभिस्त्रिदशार्चितः
यमसंयमनं मृत्योर्मृत्युं चित्रविचित्रकम्
पूजयित्वा शूलधरं जगाम निषधान् प्रति
महोदयं समभ्येत्य हयग्रीवं ददर्श सः
श्रीधरं चैव संपूज्य पञ्चालविषयं ययौ
पाञ्चालिकं वशी दृष्ट्वा प्रयागं परतो ययौ
दृष्ट्वा वटेश्वरं रुद्रं माधवं योगशायिनम्