सुदर्शनो द्वादशारः षण्णाभिर्द्वियुगो जवी
शिष्टानां रक्षणार्थाय संस्थिता ऋथवश्च षट्
इन्द्राग्नी चाप्यथो विश्वे प्रजापतय एव च
चैत्राद्याः फाल्गुनान्ताश्च मासास्तत्र प्रतिष्ठताः
अमोघ एषो ऽमरराजडपूजितो धृतो मया नेत्रगतस्तपोबलात्
कथं शंभो विजानीयाममोघो मोघ एव वा
जिज्ञासार्थं तवैवेह प्रक्षेप्स्यामि प्रतीच्छ भोः
यद्येवं प्रक्षिपस्वेति निर्विशङ्केन चेतसा
मुमोच तेजोजिज्ञासुः शङ्करं प्रति वेगवान्
त्रिधा चकार विश्वेशं यज्ञेशं यज्ञयाजकम्
व्रीडोपप्लुतदेहस्तु प्रणिपातपरो ऽभवत्
निकृत्तो न स्वरभावो मे सो ऽच्छेद्यो ऽदाह्य एव च
कृतानि तानि पुण्यनि भविष्यन्ति न सशयः
तृतीयश्च विरूपाक्षस्त्रयो ऽमी पुण्यदा नृणाम्
श्रीदाम्नि निहते विष्णो नन्दयिष्यन्ति देवताः
गत्वा सुरगिरिप्रस्थं श्रीदामानं ददर्श ह
मुमोच चक्रं वेगाढ्यं हतो ऽसीति ब्रुवन्मुहुः
संछिन्नसीर्षो निपपात शैलाद् वज्राहतं शैलशिरो यथैव
लब्ध्वा च चक्रं प्रवरं महायुधं जगाम देवो निलयं पयोनिधिम्
तमाराधय चेत् साधो क्षीरेणोच्छसि भोजनम्
तमाराध्य विरूपाक्षं प्राप्तः क्षीरेण भोजनम्
तत्तीर्थवर्यं स महासुरो वै समाससादाथ सुपुण्यहेतोः
पूजयित्वा सुवर्णाक्षं नैमिषं प्रययौ ततः
तोम्त्याः काञ्चनाक्ष्याश्च गुरुदायाश्च मध्यतः
ऋषीनपि च संपूज्य नैमिषारण्यवासिनः
गयायां गोपतिं द्रष्टुं जगाम स महासुरः
पिण्डनिर्वपणं पुण्यं पिदृणां स चकार ह
गदापाणिं समभ्यर्च्य गोपतिं चापि शङ्करम्
महानदीजले स्नात्वा सरयूमाजगाम सः
उपोष्य रजनीमेकां विरजां नगरीं ययौ