पतिव्रता पतिप्राणा धर्मशीलेति विश्रुता
संबभूव सुतः श्रीमान् उपमन्युरिति समृतः
पोषयामास वदती क्षीरमेतत् सुदुर्गता
संभावनामप्यकरोच्छालिपिष्टरसे ऽपि हि
क्षीरौदनं च बुभुजे सुस्वादु प्राणपुष्टिदम्
मात्रा दत्तं द्वितीये ऽह्नि नादत्ते पिष्टवारि तत्
तं माता रुदती प्राह बाष्पगद्गदया गिरा
अप्रसन्ने विरुपाक्षे कुतः क्षीरेण भोजनम्
तदाराधय देवेशं विरूपाक्षं त्रिशूलिनम्
प्राप्यते ऽमृतपायित्वं किं पुनः क्षीरभोजनम्
को ऽयं विरूपाक्ष इति त्वयाराध्यस्तु कीर्तितः
यो ऽयं विरुपाक्ष इति श्रूयतां कथयामि ते
तेनाक्रम्य जगत्सर्वं श्रीर्नीता स्ववशं पुरा
श्रीवत्सं वासुदेवस्य हर्तुमैच्छन्महाबलः
ज्ञात्वा तस्य वधाकाङ्क्षी महेश्वरमुपागमत्
तस्थौ हिमाचलप्रस्थमाश्रित्य श्लुक्ष्णभूतलम्
आराधयामास हरिः स्वयमात्मानमात्मना
गृणंस्तत्परमं ब्रह्म योगिज्ञेयमलक्षणम्
प्रत्यक्षं तैजसं श्रीमान् दिव्यं चक्रं सुदर्शनम्
कालचक्रनिभं चक्रं शङ्करो विष्णुमब्रवीत्
सुदर्शनो द्वादशारः षण्णाभिर्द्वियुगो जवी
शिष्टानां रक्षणार्थाय संस्थिता ऋथवश्च षट्
इन्द्राग्नी चाप्यथो विश्वे प्रजापतय एव च
चैत्राद्याः फाल्गुनान्ताश्च मासास्तत्र प्रतिष्ठताः
अमोघ एषो ऽमरराजडपूजितो धृतो मया नेत्रगतस्तपोबलात्
कथं शंभो विजानीयाममोघो मोघ एव वा
जिज्ञासार्थं तवैवेह प्रक्षेप्स्यामि प्रतीच्छ भोः
यद्येवं प्रक्षिपस्वेति निर्विशङ्केन चेतसा
मुमोच तेजोजिज्ञासुः शङ्करं प्रति वेगवान्
त्रिधा चकार विश्वेशं यज्ञेशं यज्ञयाजकम्