शूलबाहुं च गोविन्दं ददर्श दनुपुङ्गवः
शूलं तथा वासुदेवो ममैतद् ब्रूहि पृच्छतः
कथयामास यां विष्णुर्भविष्यमनवे पुरा
आराधयामास विरञ्चिमारात् स तस्य तुष्टो वरदो बभूव
ब्रह्मर्षिशापैश्च निरीप्सितार्थो जले च वह्नौ स्वगुणोपहर्त्ता
आबाधमानो विचचार भूम्यां सर्वाः क्रिया नाशयदुग्रमूर्तिः
तैश्चापि सार्द्ध भगवाञ्जगाम हिमालयं यत्र हरस्त्रिनेत्रः
निजायुधानां च विपर्ययं तौ देवाधिपौ चक्रतुरुग्रकर्मिणौ
मत्वाजेयौ शत्रुभिर्घोररुपौ भयास्तोये निम्नगायां विवेश
द्वयोः सशस्त्रौ तटयोर्हरीशौ प्रच्छन्नमूर्ती सहसा बभूवतुः
दिशस्समीक्ष्य भयकातराक्षो दुर्गं हिमाद्रिं च तदारुरोह
वेगादुभौ दुदुवतुः सशस्त्रौ विष्णुस्त्रिशूली गिरिशश्च चक्री
पपात शैलात् तपनीयवर्णो यथान्तरिक्षाद् विमला च तारा
यत्राघहन्त्री ह्यभवद् वितस्ता हराङ्घ्रिपाताच्छिशिराचलात्तु
उपोष्य भक्त्या हिमवन्तमागाद् द्रष्टुं गिरीशं शिवविष्णुगुप्तम्
विस्तुते हिमवत्पादे भृगुतुङ्गं जगाम सः
येन प्रचिच्छेद त्रिधैव शङ्करं जिज्ञासमानो ऽस्त्रबलं महात्मा
किमर्थमायुधं चक्रं दत्तवांल्लोकपूजितम्
चक्रप्रदानसंबद्धां शिवमाहात्मयवर्धिनीम्
गृहाश्रमी महाभागो वीतमन्युरिति स्मृतः
पतिव्रता पतिप्राणा धर्मशीलेति विश्रुता
संबभूव सुतः श्रीमान् उपमन्युरिति समृतः
पोषयामास वदती क्षीरमेतत् सुदुर्गता
संभावनामप्यकरोच्छालिपिष्टरसे ऽपि हि
क्षीरौदनं च बुभुजे सुस्वादु प्राणपुष्टिदम्
मात्रा दत्तं द्वितीये ऽह्नि नादत्ते पिष्टवारि तत्
तं माता रुदती प्राह बाष्पगद्गदया गिरा
अप्रसन्ने विरुपाक्षे कुतः क्षीरेण भोजनम्
तदाराधय देवेशं विरूपाक्षं त्रिशूलिनम्
प्राप्यते ऽमृतपायित्वं किं पुनः क्षीरभोजनम्