विप्रांश्च भोजयेद् भक्तया दोहदे च गुडार्द्रकम्
पारिते दक्षिणान्दद्यात् स्त्रीपुंसोश्चारुवाससी
घृतपात्रं च मतिमन् ब्राह्मणाय निवेदयेत्
नक्षत्रमय एवैष पुरुषः शाश्वतो मतः
पूर्वं कृतं हि भृगुणा सर्वपातकनाशनम्
सुरूपाम्यभिजायन्ते प्रत्यङ्गङ्गानि चैव हि
पितृमातृसमुत्थं च तत्सर्वं हन्ति केशवः
अनन्तां मनसः प्रीतिं रूपं चातीव शोभनम्
ददाति नक्षत्रपुमान् पूजितस्तु जनार्दनः
अरुन्धती महाभागा ख्यातिमग्र्यां जगाम ह
संपूजयित्वा गोविन्दं रेवन्तं पुत्रमाप्तवान्
कान्ति विधुरवापाग्र्यां राज्यं राजा पूरूवाः
पूजितो रूपधारी यैस्तैः प्राप्ता तु सुकामिता
नक्षत्रपुंसः परमं विधानं शृणुष्व पुण्यामिह तीर्थयात्राम
स्त्रात्वा संपूजयामास चैत्राष्टम्यां जनार्दनम्
जगाम स कुरुक्षेत्रं प्रह्लादो दानवेश्वरः
उपामन्त्र्य ततः सस्नौ वेदोक्तविधिना मुने
कृतशौचौ जगामाथ द्रष्टुं पुरुषकेसरिम्
तत्रेष्य रजनोमेकां गोकर्णं दानवो ययौ
प्राचीने चापरे दैत्यो द्रष्टुं कामेश्वरं ययौ
द्रष्टुं ययौ च प्रह्लादः पुण्डरीकं महाम्भसि
पुण्डरीकं च संपूज्य उवास दिवसत्रयम्
स्नात्वा तथा कृष्णतीर्थे त्रिरात्रं न्यवसच्छुचिः
जगामासौ पयोष्णायामखण्डं द्रष्टुमीश्वरम्
द्रष्टुं जगाम मतिमान् वितस्तायां कुमारिलम्
आराध्यामानं यद्यत्र कृतं पापप्रणाशनम्
देवप्रियार्थमसृजद्धितार्थं जगतस्तथा
विधिवद्दधि च प्राश्य मणिमन्तं ततो ययौ
तत्र तीर्थवरे स्नात्वा प्राजापत्ये महामतिःऽ ददर्श शंभु ब्रह्माणं देवेशं च प्रजापतिम्
षड्रात्रं तत्र च स्थित्वा जगाम मधुनन्दिनीम्