सावमेने च भर्त्तारं सुशीलमपि भामिनी
ततो निर्वेदसंयुक्तो गत्वाश्रमपदं महत्
तमाराध्य जगन्नाथं नक्षत्रपुरुषेण हि
श्रवणद्वादशीभक्तः पूर्वाभ्यासादजायत
अनङ्गरूपप्रतिमो बभूव मृश्च राजा स पुरूरवाभूत्
नक्षत्रपुरुषाख्येन आराधयत तद् वद
नक्षत्राङ्गनि देवस्य यानि यानीह नारद
द्वे जानुनी तथाश्विन्यौ संस्तिते रूपधारिमः
कटिस्थाः कृत्तिकाश्चैव वासुदेवस्य संस्थिताः
उरःसंस्था त्वनुराधा श्रविष्ठा पृष्ठसंस्थिता
पुनर्वसुरथाङ्गुल्यो नखाः सार्पं तथोच्यते
मुखसंस्थस्तथा पुष्यः स्वातिर्दन्ताः प्रकीर्तिताः
मृगशीर्षं नयनयो रूपधारिणि तिष्ठति
शिरोरुहस्था चैवार्द्रा नक्षत्राङ्गमिदं हरेः
संपूजितो हरिः कामान् विदधाति यथेप्सितान्
नक्षत्रसन्निधौ दद्याद् विप्रेन्द्राय च भोजनम्
दोहदे च हविष्यान्नं पूर्ववद् द्विजभोजनम्
सलिलं शिशिरं तत्र दोहदे च प्रकीर्तितम्
दोदहे च पयो गव्यं देयं च द्विजभोजनम्
देयञ्च दोहदं विष्णोः सुगन्धकुसुमोदकम्
गुडं सलेहकं दद्याद् दोहदे देवकीर्तितम्
अनुराधासु जठरं षष्ठिकान्नं च दोहदे
भुजयुग्मं विशाखासु दोहदे परमोदनम्
पुनर्वसावङ्गुलीश्च पटोलस्तत्र दोहदे
ज्येष्ठायां पूजयेद् ग्रीवां दोहदे तिलमोदकम्
पुष्ये मुखं पूजयेत दोहदे घृतपायसम्
दातव्या केशवप्रीत्यै ब्रह्मणस्य च भोजनम्
प्रियङ्गुरक्तशाल्यन्नं दोहदं मधुविद्विषः
मृगोत्तमाङ्गे नयने मृगमांसं च दोहदे
भरणीषु शिरः पूज्यं चारु भक्तं च दोहदे