उवार्जयित्वा प्रययौ गयाशीर्षमनुत्तमम्
चकार स्वपितॄणां च दायादानामनन्तरम्
पिण्डनिर्वपणं चक्रे तथान्यानपि गोत्रजान्
विमुक्तास्ते द्विज प्रेता ब्रह्मलोकं ततो गताः
श्रवणद्वादशीं कृत्वा कालधर्ममुपेयिवान्
मानुष्यं जन्ममासाद्य स बभौ शाकले विराट्
कालधर्ममवाप्यासौ गुह्यकावासमाश्रयत्
मर्त्यलोकमनुप्राप्य राजन्यतनयो ऽभवत्
शक्रलोकं स संप्राप्य देवैः सर्वैः सुपूजितः
ततो विकटरूपो ऽसौ सर्वशास्त्रार्थपारगः
सावमेने च भर्त्तारं सुशीलमपि भामिनी
ततो निर्वेदसंयुक्तो गत्वाश्रमपदं महत्
तमाराध्य जगन्नाथं नक्षत्रपुरुषेण हि
श्रवणद्वादशीभक्तः पूर्वाभ्यासादजायत
अनङ्गरूपप्रतिमो बभूव मृश्च राजा स पुरूरवाभूत्
नक्षत्रपुरुषाख्येन आराधयत तद् वद
नक्षत्राङ्गनि देवस्य यानि यानीह नारद
द्वे जानुनी तथाश्विन्यौ संस्तिते रूपधारिमः
कटिस्थाः कृत्तिकाश्चैव वासुदेवस्य संस्थिताः
उरःसंस्था त्वनुराधा श्रविष्ठा पृष्ठसंस्थिता
पुनर्वसुरथाङ्गुल्यो नखाः सार्पं तथोच्यते
मुखसंस्थस्तथा पुष्यः स्वातिर्दन्ताः प्रकीर्तिताः
मृगशीर्षं नयनयो रूपधारिणि तिष्ठति
शिरोरुहस्था चैवार्द्रा नक्षत्राङ्गमिदं हरेः
संपूजितो हरिः कामान् विदधाति यथेप्सितान्
नक्षत्रसन्निधौ दद्याद् विप्रेन्द्राय च भोजनम्
दोहदे च हविष्यान्नं पूर्ववद् द्विजभोजनम्
सलिलं शिशिरं तत्र दोहदे च प्रकीर्तितम्
दोदहे च पयो गव्यं देयं च द्विजभोजनम्
देयञ्च दोहदं विष्णोः सुगन्धकुसुमोदकम्