उवानद्युगले दत्ते प्रेतो मे वाहनो ऽभवत्
श्रवणद्वादशीपुण्यं तवोक्यं पुणयवर्धरम्
यन्मया तात कर्त्तव्यं तदनुज्ञातुमर्हसि
प्रेतपालो वचः प्राह स्वार्थसिद्धिकरं ततः
कथयिष्यामि तत् सम्यक् तव श्रेयस्करं मम
मम नाम समुद्दिश्य पिण्डनिर्वपणं कुरु
मुक्तस्तु सर्वदातृणां यास्यामि सहलोकताम्
बुधश्रवणसंयुक्ता सातिश्रेयस्करी स्मृता
स्वनामानि यथान्यायं सम्यगाख्यातवाञ्छुचिः
रम्ये ऽथ शूरसेनाख्ये देशे प्राप्तः स वै वणिक्
उवार्जयित्वा प्रययौ गयाशीर्षमनुत्तमम्
चकार स्वपितॄणां च दायादानामनन्तरम्
पिण्डनिर्वपणं चक्रे तथान्यानपि गोत्रजान्
विमुक्तास्ते द्विज प्रेता ब्रह्मलोकं ततो गताः
श्रवणद्वादशीं कृत्वा कालधर्ममुपेयिवान्
मानुष्यं जन्ममासाद्य स बभौ शाकले विराट्
कालधर्ममवाप्यासौ गुह्यकावासमाश्रयत्
मर्त्यलोकमनुप्राप्य राजन्यतनयो ऽभवत्
शक्रलोकं स संप्राप्य देवैः सर्वैः सुपूजितः
ततो विकटरूपो ऽसौ सर्वशास्त्रार्थपारगः
सावमेने च भर्त्तारं सुशीलमपि भामिनी
ततो निर्वेदसंयुक्तो गत्वाश्रमपदं महत्
तमाराध्य जगन्नाथं नक्षत्रपुरुषेण हि
श्रवणद्वादशीभक्तः पूर्वाभ्यासादजायत
अनङ्गरूपप्रतिमो बभूव मृश्च राजा स पुरूरवाभूत्
नक्षत्रपुरुषाख्येन आराधयत तद् वद
नक्षत्राङ्गनि देवस्य यानि यानीह नारद
द्वे जानुनी तथाश्विन्यौ संस्तिते रूपधारिमः
कटिस्थाः कृत्तिकाश्चैव वासुदेवस्य संस्थिताः
उरःसंस्था त्वनुराधा श्रविष्ठा पृष्ठसंस्थिता