अद्यातिथिरयं पूज्यः सदैव स्वजनो मम
अस्मिन् समागते प्रेताः प्रीतिर्जाता ममातुला
दध्योदनेन संपूर्णमाजगाम यथेप्सितम्
वारिधानी च संप्राप्ता प्रेतानामग्रतः स्थिता
प्राहोत्तिष्ठ वणिक्पुत्र त्वमाह्निकमुपाचर
कृताह्निकावुभौ जातौ वणिक् प्रेतपतिस्तथा
दत्त्वा तेभ्यश्च सर्वेभ्यः प्रेतेभ्यो व्यददात् ततः
अनन्तरं सबुभुजे प्रेतपालो बराशनम्
अन्तर्धानमगाद् ब्रह्मन् वणिक्पुत्रस्य पश्यतः
पप्रच्छ तं प्रेतपालं कौतूहलमना वशी
कुतश्च वारिधानीयं संपूर्णा परमाम्भसा
भवानपि च तेजस्वी किञ्चित्पुष्टवपुः शुभः
सर्वमेतन्ममाचक्ष्व को भवान् का शमी त्वियम्
शशंस सर्वमस्याद्यं यथावृत्तं पुरातनम्
सोमशर्मेति विख्यातो बहुलागर्भसंभवः
स तु सोमश्रवा नाम विष्णुभक्तो महायशाः
न ददामि द्विजातिभ्यो न चाश्नाम्यन्नमुत्तमम्
ततो रात्रौ नृभिर् घोरैस्ताड्यते मम विग्रहः
न च कश्चिन्माभ्यासे तत्र तिष्ठति बान्धवः
एवमेतादृशः पापी निवसाम्यतिनिर्घृणः
क्षपयामि कदन्नाद्यैरात्मानं कालयापनैः
श्रवणद्वादशी नाम मासि भाद्रपदे ऽभवत्
इरावत्या नड्वलाया ब्रह्मक्षत्रपुरस्सरः
कृतोपवासः शुचिमानेकादश्यां यतव्रतः
संपूर्णां वस्तुसंवीतां छत्रोपानहसंयुताम्
प्रदत्तं ब्राह्मणेन्द्राय शुचये ज्ञानधर्मिणे
वर्षाणां सप्ततीनां वै नान्यद् दत्तं हि किञ्चन
अमी चादत्तदानास्तु मदन्नेनोपजीविनः
दत्तं तदिदमायाति मध्याह्ने ऽपि दिने दिने
मयि भुक्ते च पीते च सर्वमन्तर्हितं भवेत्