समवाप परं रूपमैश्वर्य च सुदुर्लभम्
आरोग्यमतुलं प्राप संतानमपि चाक्षयम्
विरूपत्वं समुत्सृज्य रूपं प्राप श्रिया सह
पूर्वं त्रेतायुगस्यादौ यथावृत्तं तपोधन
शाकलं नाम नगरं ख्यातं स्थानीयमुत्तमम्
धनाढ्यो गुणवान् भोगी नानासास्त्रविशारदः
सार्थेन महता युक्तो नानाविपणपण्यवान्
अभवद् दस्युतो रात्रौ अवस्कन्दो ऽतिदुःसहः
असहायो मरौ तस्मिंश् चचारोन्मत्तवद् वशी
आत्मा इव शमीवृक्षो मरावासादितः शुभः
समपश्यदथायान्तं प्रेतं प्रेतशतैर्वृतम्
पिण्डाशिभिश्च पुरतो धावद्भी रूक्षविग्रहैः
उपागम्य शमीमूले वणिक्पुत्रं ददर्श सः
सुखोपविष्टश्छायायां पृष्ट्वा कुशलमाप्तवान्
कुत आगम्यते ब्रूहि क्व साधो वा गमिष्यसि
समापन्नो ऽसि भद्रं ते सर्वमाख्यातुमर्हसि
सर्वमाख्यातवान् ब्रह्मन् स्वदेशधनविच्युतिम्
वमिक्पुत्रं ततः प्राह प्रेतपालः स्वबन्धुवत्
भूयो ऽप्यर्थाः भविष्यन्ति यदि भाग्यबलं तव
क्षीणस्यास्य शरीरस्य चिन्तया नोदयो भवेत्
अद्यातिथिरयं पूज्यः सदैव स्वजनो मम
अस्मिन् समागते प्रेताः प्रीतिर्जाता ममातुला
दध्योदनेन संपूर्णमाजगाम यथेप्सितम्
वारिधानी च संप्राप्ता प्रेतानामग्रतः स्थिता
प्राहोत्तिष्ठ वणिक्पुत्र त्वमाह्निकमुपाचर
कृताह्निकावुभौ जातौ वणिक् प्रेतपतिस्तथा
दत्त्वा तेभ्यश्च सर्वेभ्यः प्रेतेभ्यो व्यददात् ततः
अनन्तरं सबुभुजे प्रेतपालो बराशनम्
अन्तर्धानमगाद् ब्रह्मन् वणिक्पुत्रस्य पश्यतः
पप्रच्छ तं प्रेतपालं कौतूहलमना वशी