सुराश्च सर्वे त्रैलोक्यमवापुर्निरुपद्रवाः
कालिन्द्य रूपमाधाय तत्रैवान्तरधीयत
यस्मिन् स दैत्येन्द्रसुतो जगाम महाश्रमे पुण्ययुतो महर्षे
उपोष्य रजनीमेकां लिङ्गभेदं गिरिं ययौ
उपोष्य रजनीमेकां तीर्थं केदारमाव्रजत्
उषित्वा वासरान् सप्त कुब्जाम्रं प्रजगाम ह
ततः सुतीर्थे स्नात्वा च सोपवासी जितेन्द्रियः. हृषीकेशं समभ्यर्च्य ययौ बदरिकाश्रमम्
वराहतीर्थे गरुडासनं स दृष्ट्वाथ संपूज्य सुभक्तिमांश्च
दृष्ट्वा संपूज्य च शिवं विपाशामभितो ययौ
उपवासी इरावत्यां ददर्श परमेश्वरम्
समवाप परं रूपमैश्वर्य च सुदुर्लभम्
आरोग्यमतुलं प्राप संतानमपि चाक्षयम्
विरूपत्वं समुत्सृज्य रूपं प्राप श्रिया सह
पूर्वं त्रेतायुगस्यादौ यथावृत्तं तपोधन
शाकलं नाम नगरं ख्यातं स्थानीयमुत्तमम्
धनाढ्यो गुणवान् भोगी नानासास्त्रविशारदः
सार्थेन महता युक्तो नानाविपणपण्यवान्
अभवद् दस्युतो रात्रौ अवस्कन्दो ऽतिदुःसहः
असहायो मरौ तस्मिंश् चचारोन्मत्तवद् वशी
आत्मा इव शमीवृक्षो मरावासादितः शुभः
समपश्यदथायान्तं प्रेतं प्रेतशतैर्वृतम्
पिण्डाशिभिश्च पुरतो धावद्भी रूक्षविग्रहैः
उपागम्य शमीमूले वणिक्पुत्रं ददर्श सः
सुखोपविष्टश्छायायां पृष्ट्वा कुशलमाप्तवान्
कुत आगम्यते ब्रूहि क्व साधो वा गमिष्यसि
समापन्नो ऽसि भद्रं ते सर्वमाख्यातुमर्हसि
सर्वमाख्यातवान् ब्रह्मन् स्वदेशधनविच्युतिम्
वमिक्पुत्रं ततः प्राह प्रेतपालः स्वबन्धुवत्
भूयो ऽप्यर्थाः भविष्यन्ति यदि भाग्यबलं तव
क्षीणस्यास्य शरीरस्य चिन्तया नोदयो भवेत्