तस्याक्षमस्य यद्दत्तं किमन्यो न हरिष्यति
समर्थेषु द्विजेन्द्रेषु प्रयच्छस्व महाभुज
संप्रयच्छस्व दैत्येन्द्र नाधिकं रक्षितुं क्षमः
प्रादाद् द्विजेन्द्राय पदत्रयं तदा यदा स नान्यं प्रगृहाण किञ्चित्
चक्रे ततो लङ्घयितुं त्रिविक्रमं रूपमनन्तशक्तिः
महीं महीध्रैः सहितां सहार्मवां जहार रत्नाकरपत्तनैर्युताम्
देवो द्वितीयेन जहार वेगात् क्रमेण देवप्रियमीप्सुरीश्वरः
पपात पृष्ठे भगवांस्त्रिविक्रमो मेरुप्रमाणेन तु विग्रहेण
त्रिंशद्योजनसाहस्री भूमेर्गर्ता दृढीकृता
अवर्षत् सिकतावृष्ट्या तां गर्तामपूरयत
सुराश्च सर्वे त्रैलोक्यमवापुर्निरुपद्रवाः
कालिन्द्य रूपमाधाय तत्रैवान्तरधीयत
यस्मिन् स दैत्येन्द्रसुतो जगाम महाश्रमे पुण्ययुतो महर्षे
उपोष्य रजनीमेकां लिङ्गभेदं गिरिं ययौ
उपोष्य रजनीमेकां तीर्थं केदारमाव्रजत्
उषित्वा वासरान् सप्त कुब्जाम्रं प्रजगाम ह
ततः सुतीर्थे स्नात्वा च सोपवासी जितेन्द्रियः. हृषीकेशं समभ्यर्च्य ययौ बदरिकाश्रमम्
वराहतीर्थे गरुडासनं स दृष्ट्वाथ संपूज्य सुभक्तिमांश्च
दृष्ट्वा संपूज्य च शिवं विपाशामभितो ययौ
उपवासी इरावत्यां ददर्श परमेश्वरम्
समवाप परं रूपमैश्वर्य च सुदुर्लभम्
आरोग्यमतुलं प्राप संतानमपि चाक्षयम्
विरूपत्वं समुत्सृज्य रूपं प्राप श्रिया सह
पूर्वं त्रेतायुगस्यादौ यथावृत्तं तपोधन
शाकलं नाम नगरं ख्यातं स्थानीयमुत्तमम्
धनाढ्यो गुणवान् भोगी नानासास्त्रविशारदः
सार्थेन महता युक्तो नानाविपणपण्यवान्
अभवद् दस्युतो रात्रौ अवस्कन्दो ऽतिदुःसहः
असहायो मरौ तस्मिंश् चचारोन्मत्तवद् वशी
आत्मा इव शमीवृक्षो मरावासादितः शुभः