भार्गवेन्द्रेण शुक्रेण वाजिमेधाय दीक्षितः
शुक्रस्यानुमते ब्रह्मन् शुक्रशिष्याश्च पण्यिताः
कृताश्चासुरनाथेन शुक्रस्यानुमते ऽसुराः
हयस्यानु ययौ श्रीमानसिलोमा महासुरः
तेनोग्रगन्धेन दिवस्पृसेन मरुद् ववौ ब्रह्मलोके महर्षे
ततः शरण्यं शरणं जनार्धनं जग्मुः सशक्रा जगातः परयणम्
प्रोचुः सर्वे सुरगणा भयगद्गदया गिरा
विज्ञप्तिः श्रूयतां विष्णो सुराणामार्तिनाशन
सर्वान् सुरान् विनिर्जित्य त्रैलोक्यमहारद् बलिः
अतो विवृद्धिमगमद् यथा व्याधिरुपेक्षितः
शुक्रस्य मतमास्ताय सो ऽश्वमेधाय दीक्षितः
अरोढुमिच्छति वशी विजेतुं त्रिदशानपि
उवायं मखविध्वंसे येन स्याम सुनिर्वृताः
विसृज्य देवताः सर्वा ज्ञात्वाजेयं महासुरम्
ततः कृत्वा स भगवान् वामनं रूपमीश्वरः
क्षणान्मज्जंस्तथोन्मज्जन्मुक्तकेशो यदृच्छया
ततः कर्म परित्यज्य यज्ञियं ब्राह्मणोत्तमाः
सदस्या यजमानश्च ऋत्विजो ऽथ महौजसः
किमर्थं पतितो ऽसीह केनाक्षिप्तो ऽसि नो वद
प्राह धुन्धुपुरोगांस्ताञ् छ्रूयतामत्र कारणम्
सर्वसास्त्रार्थवित् प्राज्ञो गोत्रतश् चापि वारुणः
तत्र ज्येष्ठो मम भ्राता कनीयानपरस्त्वहम्
मम नाम पिता चक्रे गतिभासेति कौतुकात्
त्रिविष्टपगुणैर्युक्तश्चारुरूपो महासुर
तस्योर्ध्वदेहिकं कृत्वा गृहमावां समागतौ
तेनोक्तो नैव भवतो विद्यते भागा इत्यहम्
उन्मत्तानां तथान्धानां धनभागो न विद्यते
एतावद् दीयते तेभ्यो नार्थभागहरा हि ते
धनार्थभागमर्हामि नाहं न्यायेन केन वै
समुत्क्षिप्याक्षिपन्नद्यामस्यां मामिति कारणात्