तत्र देवं जगन्नाथं गोविन्दं चक्रपाणिनम्
ददर्श देवदेवेशं लोकनाथं त्रिविक्रमम्
करिष्यति जगत्स्वामी बलेर्बन्धनमीश्वरः
कस्य वा बन्धनं विष्णुः कृतवांस्तच्च मे वद
यस्मिन् काले संबभूव यं च वञ्चितवानसौ
दनुगर्भसमुद्भूतो माबलपराक्रमः
अवध्यत्वं सुरैः सेन्द्रैः प्रार्थयत् स तु नारद
परितुष्टः स च बली निर्जगाम त्रिविष्टपम्
धुन्धुः शक्रत्वमकरोद्धिरण्यकशिपौ सति
चचार मन्दरगिरौ दैत्यं धुन्धुं समाश्रितः
ब्रह्मलोके च त्रिदशाः संस्थिता दुःखसंयुताः
ब्रजाम दैत्य वयमग्रजस्य सदो विजेतुं त्रिदशान् सशक्रान्
गतिर्यया याम पितामहाजिरं सुदुर्गमो ऽयं परतो हि मार्गः
येषां हि दृष्ट्यार्ऽपणचोदितेन दह्यन्ति दैत्याः सहसेक्षितेन
गोमातरो ऽस्मासु विनाशकारि यासां रजो ऽपीह महासुरेन्द्र
तिष्ठन्ति यत्रासुर साध्यवर्या येषां हि नश्वासमरुत् त्वसह्यः
सत्याभिधानो भगवन्निवासो वरप्रदो ऽभुद् भवतो हि यो ऽसौ
संकोचमसुरा यान्ति ये च तेषां सधर्मिणः
वैराजभुवनं धुन्धो दुरारोहं सदा नृभिः
गन्तुकामः स सदनं ब्रह्मणो जेतुमीश्वरान्
कथं तत्र सहस्राक्षः संप्राप्तः सह दैवतैः
कर्म तन्न वयं विद्मः शुक्रस्तद् वेत्त्यसंशयम्
पप्रच्छ शुक्रं किं कर्म कृत्वा ब्रह्मसदोगतिः
शक्रस्य चरितं श्रीमान् पुरा वृत्ररिपोः किल
दैत्येन्द्र वाजिमेधानां तेन ब्रह्मसदो गतः
अथामन्त्र्यासुरगुरुं दानवांश्चाप्यनुत्तमान्
तदागच्छध्वमवनीं गच्छामो वसुधाधिपान्
आहूयन्तां च निधयस्त्वाज्ञाप्यनातां च गुह्यकाः
स्थानं प्राचीनमासाद्य वाजिसेधान् यजामहे
बाढमित्यब्रवीद् हृष्टो निधयः संदिदेश सः